पृष्ठम्:महाभास्करीयम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भास्कराचार्यप्रणीतम्
महाभास्करीयम्

प्रथमोऽध्यायः
कलां बिभति क्षणदाकरस्य यः
प्रकाशिताशां शिरसा गभस्तिभिः |
नमोऽस्तु तस्मै सुरवन्दिताङ्घ्रये
समस्त विद्याप्रभवाय शम्भवे ॥ १ ॥
जयन्ति भानोः कमलावबोधिनः
करा हिमांशोर्वनिताननस्विषः' ।
सरितारास्कुटवीर्घरश्मयो
धरासुतज्ञाकसितत्विषः पुनः ॥ २ ॥
तपोभिराप्तं स्फुटतन्त्रमाश्मक*
चिरत्वमभ्येतु' जगत्सु सद्गुणैः ।
चिरं च जीव्यासुरपेतकल्मषा'
भटस्य शिष्या जितरागशत्रवः || ३ ||
नवाद्रिरूपाग्नित महीभुजां
शकेन्द्रनाम्नां गतवर्षसङ्ग्रहम् ।
द्विषट्कनिघ्नं गतमाससंयुतं
युगाधिमासैर्गुणयेद् द्विराशितम् ॥ ४॥

' हिमांशोर्वनिता तत्विषः A, B. धरासुतज्ञातिसितत्विषं A, B.
'जीयासुरपेतकल्मषा A, B. • नवाग्नि-
'युर्गार्धमासँगणयेद्विराशितम् B; युगाधि-
.
'बमस्तिनि B.

  • स्फुटतन्त्रमात्मकं C. 'चिरं समभ्येतु A, B.

रूपाग्नियुतं A, B; नावाग्निरूपाग्नियुतं C.
मास येद्विराशिकम् C,