पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
पञ्चदशोऽध्यायः ।।

भागेन पद्ममर्धन वृत्तमर्धन हीरकौ ।।
हीरौ पादसमव्यासौ तत्कर्णनास्यविस्तृतम् ।। ३३ ।।
तत्कणे कुम्भचिस्तार तत्कणे फलकायतम ।
अथवा फलकायम चतुर्दण्डं त्रिदण्डकम् ॥ ३४ ॥
सार्धत्रिदण्डमायाममुत्सेधारख्यं त्रिदण्डकम् । ।
तदुत्सेधे त्रिभागे तु भागेनोत्सन्धिरिष्यते ॥ ३५ ॥
भागेन वेत्रमंशेन पद्म पाल्याभमिप्यते ।
नागवक्रसमाकारमा बेत्रात् पादरूपवत् ॥ ३६॥
पादविस्तारविस्तारं धृक्कण्ठं वीरकाण्डकम् ।
सर्वेषामपि पादानां वीरकाण्ड युगाश्रकम् ॥ ३७॥
तदुत्सेधत्रिपादोनदण्डो(डं?थं) स्कन्धमिष्यते ।
तदधस्तु तदर्धन पझं पत्रविचित्रितम् ॥ ३८ ॥
मालास्थानमधस्तस्माद् दण्डमानसमुन्नतिः ।
पादीवस्तारविस्तारा पोतिका तत्समोदया ॥ ३९ ॥
पञ्चदण्डसमायामा श्रेष्ठाच्चा कनिष्ठिका ।।
आयता सा त्रिदण्डेन चतुर्दण्डेन (दिर्यका?) ॥ ४० ॥
त्रिभागाना त्रिपादोच्चा मध्यमा पोतिका भवेत् ।।
पूर्वोक्तं तत् समण्डीनां सकुम्भा(नां) चतुर्गुणम् ॥ ११ ॥
त्रिगुणं केवलानां तु पादानां प्रविधीयते ।
सर्वेषामपि पादानां यथेष्टायतमीरितम् ॥ ४२ ॥
तदुञ्चत्रिचतुर्भागोच्चा वा स्वाग्रे तु पट्टिका ।
अर्ध त्रियंशम(घूरु?ङ्घयू)नं छायामानं विधीयते ॥