पृष्ठम्:मयमतम् TG Sastri 1919.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
चतुर्दशोऽध्यायः ।

पुष्पपुष्कलमेतदुदाहृतं कल्पितं नवपक्किभिरुच्छ्रये ।।
शिल्पिभिः प्रसरेरपि पूजितामूर्ध्वमध्यममुखे विमानके ।।२८॥
द्वाभ्यामेकेन सप्तांशकशशि(शि)ववेदैकचन्द्राग्निभागै-
रेकेनैकेन वेदैः शिवशशिनयनैकेन मोहाभाब्जम् ।
हृत्पद्म कैरवाजं गलधरगलकम्पं दलं तत्कपातं
हिलिङ्गान्तादिकं तत् प्रतिमुखमथ तहाजनं पङ्कजाळ्यम् ।।
श्रीबन्धं स्यादेतदुच्चे चतुर्वस्वंशे कुर्याच्छान्तवीर्वधकिस्तत् ।
देवेशानां मन्दिरे-वेवमुक्तं श्रीसौभाग्यारोग्यभोग्यं ददाति ॥
तुङ्गे षड्शिदशे खुरमथ जगतीकैरवं कम्पकण्ठं
कम्प पद्म कपोतं तदुपरि च तथा निम्नमन्तादिक्रम् ।
कम्प भागेन षभिः शरशशिगुणचन्द्रकबन्धांशकांशै-
इभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्चबन्धम् ॥ ३१॥
आलिङ्गयुक्तमथ चान्तरितप्रतीभ्यां
ताजनेन च वियुक्तकमेतदेव ।
श्रीकान्तनामकमसूरकमष्टकोणं
वृत्तं तु वा कुमुदमम्बरमार्गिणां तत् ॥ ३२ ॥
एकद्येकर्तुवेदैः शशिनयनशिवयेकदृक्चन्द्रसार्धा-
शैर्जन्माजकम्प जगतिकुमुदकं कम्पकण्ठं च कम्पम् ।
पद्म पट्टे च कण्ठं तदुपरि च तथा वाजनाब्जं च पट्टे
श्रेणीबन्धं सुराणामुदितमिदमलं तुङ्गषड्शिदंशे ॥ ३३ ॥


 १. 'क' ख. पाठः.