पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते नानाचित्रविचित्रं द्युसदां राज्ञां च वक्ष्येऽथ । उपपीठयुक्तमेतद्युक्तेऽर्थे पद्मबन्धयुतम् ॥ १४ ॥ कर्णे मध्ये मध्ये स्तम्भमृगेन्द्रैर्विचित्रं स्यात् । तदुपरि तोरणयुक्तं सविजिकमथ हेमरत्नाढ्यम् ॥ १५॥ सिंहासनमिदमुदितं मुनिभिर्यथाबलाङ्गसंयुक्तम् । एतद्यासं चासनफलकमपि द्विगुणदैर्ध्यकं पादम् ॥१६॥ पश्चाङ्गुलान्तमुन्नतमुत्सेधार्ध तु वाजनं चोर्चे । अपरार्धमुत्तरं स्यात् तावद्व्यासं तदन्तरं घातम् ॥१७॥ व्यासायामे मध्ये पश्चांशैकांशमायतं च गतः । विष्टरमष्टोत्तरमायतनं चोत्तरमन्यधाशोन्तम् (?) ॥ १८ ॥ जात्युत्तमायतव्यावासनशयनी यथा तथा चेष्टा(?)। उक्तोत्सेधायामा स्वस्वांशेनैव वर्धिता हीना ॥१९॥ आद्यं षडगुलं स्याद् द्यगुलवृहया करान्तमाना च । दशधा विस्तृतमुदितं चतुरङ्गुलविपुलमपि बदन्त्येके ॥ चतुरश्रमायताधे वृत्तं विपुलार्धमुत्तुङ्गम् । व्यासषडष्टांशं वा हरिचरणयुतं सकम्पवाजनकम् ॥२१॥ तदुपरि पद्मदलं स्यात् कर्णिकयालकृतं यथाशोभम् । शोभनमिदमिदमुदितं सर्व देवेषु पूजितं ह्येव ॥ २२॥ नानाचित्रसमेतं सुगृहार्चनपीठमेवमिदमुदितम् । न्यग्रोधोदुम्बरवटपिप्पलबिल्वामलसारदारुमयम् ॥ २३ ॥ ते सर्वे योग्याः स्युः पीठेऽस्मिन् सर्वसिद्धिकरणीयम् ॥ अष्टधनरश्मिभिरतुर्यगृहवृद्धया भानुादीश सर्वमहनाद्यऋषिहारैः । 287