पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । तत्रैव कन्यकानां वासं वसुधात्र कुब्जकादीनाम् । एकहित्रिभिरंशैदक्षिणतश्चोत्तरक्रमशः ॥ १५१३ ॥ तत्रोद्यानविशालं सालं कुर्यात् तु तत्र बहिरेव । तत्रैवोत्तरभागे यत्र युता सम्मता जलक्रीडा ॥ १५२३ ॥ तत्र च सलिलावासं(स्याद) नृपतेर्दाधिका चैव।। अपरे नृपतेश्च गृहं स्त्रीणां स्यादेव सङ्करा शाला ॥ प्रागुत्तरदिशि बाह्ये नव स्वेष्टदेवताश्च गृहम् । तत्राग्रायणशाला पुष्पोद्याना(दी?)नि (च?) कूपं स्यात् ॥ प्राच्यां तु महाङ्गणकं त्रिंशद्भागैर्विधातव्यम् । समहेन्द्रद्वारं तत् त्रितलं वा गोपुरं चतुःस्थलकम् ।। ....जासरस्वतीसद्मान्तान्येतानि हारदक्षिणतः । अभ्यन्तरमुखयुक्तान्येद्वितयत्रेखभौमानि(?) ।। १५६३ ।। तत्प्राचि शङ्खभेरिप्रभृतीनामालयं तु स्यात् ।। तद्दक्षिणतो दभ्रं महानसं सर्वरक्षयुतम् ।। १५७३ ॥ अङ्गणदक्षिणभागे द्वारं स्यादेव द्वित्रितलसहितम् । द्वारस्योभयपाधै लेखकयोस्तत् खलूरी स्यात् ॥ १५८३ ॥ अङ्गणकोत्तरपार्श्वे कर्तव्या चैव (इनकाच :) सभा । दक्षिणमुखगतसहिता सर्वविचित्रा मनोहरा तुङ्गा ॥ तदपरभागेपू....शस्तानन्तु गीतकादिसहाः(?) । अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ॥ १६० ॥ वेश्मावधूविहिततुङ्गविशालमूलं (स्या ? सा)लं शिलाभिरथ चेष्टकया (प्रयोज्यम्। 260