पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते अर्याशे द्वारहवें स्याञ्चन्द्रे सूर्येऽङ्गणं भृशम् । (प्रीभृ)शे व्योम्नि च वृत्तं (स्यात्) पूष्णे हेमं सदक्षिणम् ॥ शालानां वित(धो?थे)राक्षादभूदङ्गणकं विदुः(?)। सेनावेशनहर्म्यं तु यमभागेऽतितुङ्गवत् ॥ ३२ ॥ गन्धर्वे नीडभा नृत्तयोग्या रङ्गविभूषिता । विमानमन्दिरं वापि शाला वा हर्म्यमेव वा ॥ ३३॥ भृङ्गराजेऽश्वशाला (भ्या ? स्याद्) वृषे चार्तवसूतिका । पितरि स्थानहर्म्य स्याद् दौवारिकसुवर्णयोः ॥ ३४ ॥ जललीला विधातव्या पुष्पदन्ते खलूरिका । लवणं तत्र विज्ञेयं मरीचाशतोचितम् ॥ ३५॥ वरुणासुरशोषेषु मित्रे स्याच्छङ्करालयम् । राजदेवीगृहं गीगारदक्षिणवामयोः ॥ ३६ ॥ गेहनत्तरसाङ्गानि मित्रे सो(मा?प)स्करं गृहम् । अन्तर्विवृत्तवेशार्थ रोगादिमुपदापणे(?) ।। ३७ ॥ वर्तमानादिकं चापि शालानां पादशालकम् । नागे सैरन्ध्रिधात्रीणां मुख्ये कन्यागृहं भवेत् ॥ ३८ ॥ भैषज्यं चापि भल्लाटे मृगे सांबाहिकागृहम् । रुचकादिचतुश्शालाविमानं वात्र योजितम् ॥ ३९ ॥ अभितो मज्जनागारमुदीच्यामापवत्सयोः । पानीयोष्णोदकं धाम यच्च प्रासादवद् बुधैः ॥ ४० ॥ स्वेष्टदैवतमीशाने जयन्ते च विधीयते । महेन्द्रे भोजनस्थानं महीधरमरीचयोः ॥४१॥ 249