पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
षड्विंशोऽध्यायः।।।।

मध्यरङ्गसमायुक्तं मुख्यगेहं हिवासकम् ।।
बाह्यचङ्क्रमणाद् बाह्ये मुखभद्रं हिभागतः ॥ ५० ॥
चतुर्मुखसमायुक्तं द्विशालं तच्चतुर्मुखम् ।।
तदेव पञ्चभागान्तमेकांशादि मुखायतम् ॥ ५१ ।।
हारं पूर्ववदुदिष्टं सर्वालङ्कारशोभितम ।
मण्डपं बाह्यतोऽलिन्द्रं सायतं प्रविधीयते ॥ ५२ ॥
नेत्रत्रयसमायुक्तं दी- चायतभद्रकम् ।
एतत् स्वास्तिकमित्युक्तं शेषं पूर्ववदाचरेत् ॥ ५३ ॥
तदेव द्विमुखोपेतं दण्डवक्रमिति स्मृतम् ।
सावकाशाङ्गणोपेतं मण्डपेन विना यदि ॥ ५४ ॥
शालाविरहितस्थाने कुड्यहारं प्रयोजयेत् ।
एकानेकतलोपेतं कुर्याद् रूपोपजीविनाम ॥ ५५ ॥
व्यासायामेऽष्टधर्माशे त्रिशाले यंशमङ्गणम् ।
त्रिपार्श्वेऽलिन्द्रमेकांशं यंशं शालाविशालकम् ॥ ५६ ॥
त्यक्तमध्यमपादं तद् द्व्यंशं तन्मुखभद्रकम् ।
षडाननसमोपेतं सप्रच्छन्नमजाङ्कणम् ॥ ५७ ।।।
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
द्वारादि पूर्ववन्मेरुकान्तं नामाग्रजीविनाम् ॥ ५८ ॥ . .
व्यासे पनयर्कभागे तु पाश्चयोः पृष्ठतस्तु वा ।
वारमेकांशतः कुर्याद् ड्यंशं गेहविशालकम् ।। ५९ ॥
प्रमुखे वारमेकांशं ड्यंशं तन्मध्यमाङ्गणम् ।
परितो वारमेकांशं द्विप्रच्छन्नमथापि वा ॥ ६०॥