त्रिभागं त्र्गृहविस्तारं द्विगुणं तस्य दीर्घकम् ।
भागं चक्रमणोपेतं मध्यमे चैकभक्तिकम्॥ २८॥
कुल्याभद्दारसंयुक्तं शेषं पूर्ववदाचरेत् ।
वंशमूले तु बासं स्याद् वंशाग्रे रङ्गमीरितम् ॥२९॥
सर्वतः परितः कुड्यं रङ्गं पादस्य संयुतम् ।
भागेन पुरतोऽलिन्द्रं पार्श्वयोः पृष्ठतस्तु वा ॥३०॥
प्रासादवदलङ्कयोद् दण्डकं तदुदीरितम् ।
तदेव मध्यमे रङ्गं वासौ वंशाग्रमूलयोः ॥ ३१॥
युक्त्यान्तस्तम्भसंयुक्तं वंशहारं न योजयेत् ।
शेषं पूर्ववदुद्दिष्टं दण्डकं तदुदीरितम् ॥ ३२ ॥
षडंशं विस्तृतं चैव द्वादशांशं तदायतम् ।
भागेन परितोऽलिन्द्रं शालाभार्ग द्विभागतः ॥ ३३ ॥
तत्सम परितोऽलिन्द्रं युक्त्यान्तःस्तम्भसंयुतम्
पार्श्वयोर्डिंत्रिभागेन शालायामे हिवासकौ ॥ ३४॥
द्विचतुर्भागविस्तारायाम मध्ये तु रङ्गकम् ।
दण्डकं तदपि प्रोक्तं शेषं पूर्ववदाचरेत् ॥ ३५॥
व्यासेऽग्निभूतपातालनन्दांशैकढिकत्रिभिः।
चतुर्भिः पुरतोऽलिन्द्रं स्यादेकद्वित्रिशालके ।। ३६ ॥
एतत् सर्व दण्डकं जातिरूपं देवानां भूतैतलानां नृपाणाम् ।
पाषण्डादीनां विशां शूद्रकाणां योधानां रूपाङ्गनानां प्रशस्तम्॥
एतदेव सभाकारशिरोयुक्तं तु मौलिकम् ।
तदेव काननोपेतं मौलिकं तदुदीरितम् ॥ ३८॥