पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
मयमते।।।

 तत्तद्विस्तारायतांशैर्विधिज्ञैः
  तेषां मानं पादबाह्ये तु केचित् ।
 केचिद् भित्तेमध्यमं तद् वदन्ति
  शालाकारं वा सभाशीर्षकाङ्गम् ॥१९५३ ॥
  (यत्तत् कुर्यान्मण्डपं वासयोग्यम् ॥?)
एकद्वित्रिचतुर्मुखानि च मुखे भद्राण्यभद्राणि का-
 न्यूर्वे कूटयुतानि मध्यकपदे रङ्गाङ्गणाढ्यानि वै ।
सर्वाण्यायतमण्डपानि चतुरथाभाणि देवद्विज-
 क्षोणीशायतने मतानि च विशां शूद्रेषु दीर्घ मतम् ।।

इति मयमते वस्तुशास्ने मण्डपलक्षणो नाम

पञ्चविंशोऽध्यायः।


अथ षड्विंशोऽध्यायः।

तैतलानां द्विजादीनां वर्णानां वासयोग्यकाः ।
एकद्वित्रिचतुस्सप्तद(शा ? शशाला)श्च षड्विधाः ॥ १ ॥
त्यक्ताजांशाः पुरोलिन्द्राः संयुक्ताः पिण्डभिन्नकाः ।
तासां हस्तैरयुग्मैश्च युग्मैविस्तारमायतम् ॥ २ ॥
उत्सेधं चाप्यलकारं संक्षेपाद् वक्ष्यतेऽधुना ।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ ३ ॥
त्रयोविंशचतुर्विशद्धस्तान्ता रुद्रसंख्यया ।
एकशाला द्विशालाश्च ताः सर्वाः परिकीर्तिताः ॥ ४ ॥
सप्ताष्टहस्तादारभ्य द्वौ हौ हस्तौ प्रवर्धयेत् ।
एकोनविंशद्धस्तान्तं विशद्धस्तं तु सप्तधा ॥ ५ ॥