पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
त्रयोविंशोऽध्यायः।।।।

 चण्डप्रचण्डरथनेमिसपाञ्चजन्य-
  दुर्गागणेशरविचन्द्रमहानुभावाः।
 सर्वेश्वरः सुरपतिश्च तथा दशैते
  प्राकारपञ्चमुखगोपुरकल्पनीयाः ॥ १०६३ ॥
वृषस्य लक्षणं सम्यक् संक्षिप्येह प्रवक्ष्यते ॥ १०७ ॥
द्वारलिङ्गसमं श्रेष्ठ चतुरंशविहीनकम् ।
मध्यमं त्रिद्विभागोचं कन्यसं वृषभोदयम् ॥ १०८ ॥
गर्भाध कन्यसं नालीगेहतुल्यं वरोदयम् ।
तदन्तरेऽष्टभागे तु नवमानमुदीरितम् ॥ १०९ ॥
एकादिनवहस्तान्तं कनिष्ठादित्रयं त्रयम् ।
पञ्चाशदंशकं तुङ्गमेकांशमात्रमीरितम् ॥ ११० ॥
पश्चाष्टाङ्गलमायामं तन्मानमधुनोच्यते ।
मूर्भस्तु गलपर्यन्तं दशमात्रं ततस्त्वधः ॥ १११॥
ग्रीवोच्चमष्टमात्रं स्यादुरोन्तं षोडशाङ्गुलम् ।
ऊरुदैर्ध्य च षण्मानं जानुमात्रं द्विमात्रकम् ॥ ११२ ॥
जङ्घादीर्घ षडङ्गुल्या खुरं कोलकमुच्यते ।
शृङ्गान्तरं द्विमानं स्याश्छृङ्गदैर्घ्य द्विकोलकम् ॥ ११३ ॥
मूलव्यासं त्रिभागेन शृङ्गाग्रं तु हिमात्रकम् ।
ललाटं नवमात्रं स्यान्मुखव्यासं शराङ्गुलम् ॥ ११४ ॥
उत्सेधं तत्समं नेत्रायामं द्वयङ्गुलमीरितम् ।
सार्धाङ्गलं तदुत्सेधं नेत्रमध्यान्मुखायतम् ॥ ११५ ॥