पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
मयमते।।।

मण्डपं द्वितलं वैकतलं वापि तदावृतम् ।
अधिष्ठानादिवर्गाढ्यं समं वाष्टांशहीनकम् ॥ ३० ॥
त्रिपादं वा विशेषेण सालाधिष्ठानतुङ्गता ।
द्विगुणं चरणोत्तुङ्गं षडष्टांशोनमेव वा ॥ ३१ ॥
उक्ष वा भूतरूपं वा कर्तव्यं सालशीर्षके ।
मूलजन्मतलं हस्तमात्रोच्चं जन्मसालतः ॥ ३२॥
प्रतिसालं तु षण्मात्रहीनं स्याच्छेषसालके ।
क्षुद्र साष्टादशाङ्गुल्यं मध्यमे मूलपादुकम् ॥ ३३ ॥
क्षपयेत्तु चतुर्मात्रैर्यावत् पञ्चान्तसालकम् ।
योजयेद् विधिनानेन स्थपतिस्तत्क्रमेण तु ॥ ३४ ॥
परिवारविमानानां मानं गर्भार्धमिष्यते ।
मूलवस्तुत्रिभागैकं मध्यं वा पादबाह्यकम् ॥ ३५ ॥
त्रिचतुष्पञ्चषट्सप्तहस्तैर्वा हर्म्यविस्तृतम् ।
अष्टौ वा परिवाराः स्युस्तथा द्वादश षोडश ॥ ३६॥
द्वात्रिंशत् परिवाराश्च हीष्यन्ते शास्त्रकोविदः ।
परिवारामरोत्सेधं युक्त्या तत्रैव योजयेत् ॥ ३७ ॥
यदुक्तं सकले बेरे तन्मानं गृह्यतां वरैः ।
सर्वलक्षणसंयुक्तं स्थानकासनमेव वा ॥ ३८ ॥
हीनविमानानामथ परिवाराश्चाष्ट वै प्रोक्ताः।
प्राकारोऽप्ये(वं?कः) स्यात् पीठपदे चार्यकः स्थाप्यः ॥
ऋषभगणाधिपकमलजमातृगुहार्याच्युताश्च चण्डेशाः।
उपपीठपदे चान्तोदश परिवारकाः स्थाप्याः॥४०॥ ।