पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
अष्टादशोऽध्यायः।।।

उपपीठपदस्थांस्तान् स्वस्वनाम्नाभिधाय च । .
ओङ्कारादिनमोन्तेन चार्चयित्वा न्यसेत् ततः ॥१७२॥
कलशस्योत्तरे पार्श्वे दर्भा(सन)परिस्तरे।
चतुष्प्रदीपसंयुक्ते सर्वमङ्गलशोभिते ॥ १७३ ॥
पूतचेता विशुद्धात्मा स्थपतिर्बतमास्थितः ।
पीत्वा शुद्ध पयो रात्रात्रुपोष्याधिवसेत् ततः॥ १७४॥
प्रासादस्याग्रतो यागमण्डपं विधिनाचरेत् ।
चतुहारसमायुक्तं चतुस्तोरणभूषितम् ॥ १७५॥
वासोभिर्दर्भमालाभिः सक्सु)मैः समलङ्कृतम् ।
तन्मध्ये वेदिकां कुर्यात् तद्व्यासज्यशमानतः॥ १७६ ।।
चतुरश्रं चतुर्दिक्षु विदिक्ष्वश्वत्थपत्रवत् ।
सुरेन्द्रेशानयोर्मध्ये कुण्डमष्टाश्रमिष्यते ॥ १७७ ॥
त्रिमेखलासमायुक्तं वैकमेखलयान्वितम् ।
स्थापको मूर्तिपैः सार्ध विधिना होममाचरेत् ॥ १७८ ॥
शालिभिः स्थण्डिलं कृत्वा वेदिमध्ये विचक्षणः।
मूर्तिकुम्भं न्यसेत् सम्य(ग) बीजमन्त्रमनुस्मरन् ।।१७९॥
प्रासादस्य चतुर्दिक्षु वृत्तकुण्डविधानतः।
सन्तर्प्य स्थापको जातवेदसं निवसेत् तदा ॥ १८० ॥
विमानं जन्मतः स्थूपिकान्तं वस्त्रैर्निवेष्टयेत् ।
कुशास्ती(णन)वैर्वस्त्रैः स्थूपिकीलमलकियात् ॥ १८१ ॥
बल्यन्नं पायसान्नं च मुद्दान्नं च यवान्नकम् ।
कृसरं गुलशुद्धानं पीतं कृष्णं तथारुणम् ॥ १८२ ॥