पृष्ठम्:मयमतम् TG Sastri 1919.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
सप्तदशोध्यायः।।।

मेषयद्धं त्रिखण्डं च सौभद्रं चार्धपाणिकम् ।।
महावृत्तं च पञ्चैते स्तम्भानां सन्धयः स्मृताः ॥ २९ ॥
शिखा झषदन्तं च सूकरघ्राणमेव च ।
सङ्कीर्णकीलं वज्राभं पञ्चैव शयितप्वपि ॥ ३० ॥
स्वव्यासर्कणमयधीहगुणं वा तदायतम् ।
त्र्यंशैकं मध्य(म)शिवं मेषयुद्धं प्रकीर्तितम ॥ ३१ ॥
स्वस्त्याकारं त्रिखण्डं स्यात् सत्रिचूलि त्रिखण्डकम् ।
पार्श्वे चतुश्शिरखोपेतं सौभद्रमिति संज्ञितम् ॥ ३२ ॥
अर्घ छित्त्वा तु मूलेऽग्रे चान्योन्याभिनिवेशनात् ।
अर्धपाणिरिति प्रोक्तो गृहीतधनमानतः ॥ ३३ ॥
अर्धवृत्तशिखं मध्ये तन्महावृत्तमुच्यते ।
वृत्ताकृतिषु पादेषु प्रयुञ्जीत विचक्षणः ॥ ३४ ॥
स्तम्भानां स्तम्भदैर्ध्यार्धादधः सन्धानमाचरेत् ।
स्तम्भमध्योर्ध्वसन्धिश्चेद् विपदामास्पदं सदा ।। ३५ ॥
कुम्भमण्ड्यादिसंयुक्तं सन्धानं सम्पदां पदम्।
सालङ्कारे शिलास्तम्भे यथा योगं तथाचरेत् ॥ ३६ ।।
स्थितस्य पादपस्याङ्गप्रवृत्तिवशतो विदुः।
ऊर्ध्वमूलमधश्चाग्रं सर्वसम्पद्विनाशनम् ॥ ३७ ॥
अर्धपाणिद्विललाटे लाङ्गलाकारषट्शखा ।
धनमध्यस्थकीला या सा मता पशिखाह्वया ॥ ३८ ॥
स्वायामतिर्यग्बाहु(स्थ)शिखं तु झषदन्तकम्
ऊर्ध्वाधस्ताद् यथायोग्यं यथाबलशिखान्वितम् ॥ ३९ ॥