पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
मयमते।।।

पश्चिमस्थमधश्छेद्यं क्षेप्यमाधेययोगतः ।
एतत् तु सर्वतोभद्रमवागादि तथा विदुः ॥ १८ ॥
नन्द्यावर्तविधानेन नन्द्यावर्त प्रकल्प येत् ।
दक्षिणोत्तरगं दीर्घ दक्षिणे तु सकर्णकम् ॥ १९ ॥
प्राक्प्रत्यग्गतमायामं पश्चिमे तु सकर्णकम् ।
दक्षिणोत्तरगं दीर्घमुत्तरे तु सकर्णकम् ॥ २० ॥
पूर्वपश्चिमगं दीर्घ पूर्वायां तु सकर्णकम् ।
आधाराधेयनीत्यैव पूर्वादीनि च विन्यसेत् ॥ २१ ॥
नन्द्यावर्तमिदं तद्वदवागादीनि च क्रमात् ।
पक्षयोर्बहुभिर्द्रव्यैर्दीर्घ प्रागुदगग्रकम् ॥ २२ ॥
सशिखैश्च बहुद्रव्याभ्यां वा तिर्यगग्रकम् ।
स्वस्त्याकृतिसमायुक्तं स्वस्तिबन्धनमिप्यते ॥ २३ ॥
परितो बहुभिर्द्रव्यैर्युक्तं तहत तदन्तरे ।
मध्येऽङ्कणसमायुक्तं बाह्ये युक्ता(?) सभद्रकम् ॥ २४ ॥
पूर्वद्रव्यं परद्रव्यं भद्रकं दक्षिणोत्तरान् ।
शालानां भित्तिमाश्रित्य युक्त्या साधु समाचरेत् ॥२५॥
एवं युञ्ज्यादिदं बन्धं वर्धमानमितीरितम् ।
अधोभूमिक्रियायुक्त्या स्यादृवोर्ध्वतलं प्रति ॥ २६ ॥
विपरीते विपत्त्यै स्यादिति शास्त्रविनिश्चयः ।
दीर्घादीर्धेपु संयोगद्रव्यसन्धानतर्पणम् ॥ २७ ॥
यथाबलं (यथा)योगं तथा यो(ग्यं ? ज्यं) विचक्षणैः ।
एवं विधिविशिष्टं स्यात् सम्पत्यै द्रव्यबन्धनम् ॥ २८॥