पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
काव्यमाला ।

समानिका रजगला न यतिः स्यात्पदान्तरे ।

शम्बरीकिशोरलोललोचनाञ्चलान्तरेण ।
सूचयन्त्यलं प्रियं किमप्यसौ श्रुतौ ब्रवीति ॥ २९ ॥

 अथ सकलकलाविलाससललितललनाजनलपितमालाजितशुकाकलितमञ्जुलपिञ्जरजटिलविशङ्कटविटङ्कां स्फुटतरस्फाटिककुरण्टिकाकरतलकलितकनककुम्भैरुन्नमत्कुचभारामिव, पद्मरागमणिगणरञ्जितभित्तिभिस्ताटङ्कभासुरकपोलतलामिव, विचित्रतरमुक्ताप्रवालपरिचिततोरणस्रजा मेखलाकलापलालितामिव, मरकतमणिनिचयरचितशिरोभागेन विबद्धकचभारामिव, कलिन्दनन्दिनीतुरङ्गतरङ्गभङ्गिसकूलदुकूलसंवीतसारसारसदृशां कदम्बेन कादम्बिनीमिव, सतटिद्गणामभ्रंकषभङ्गिभिः शृङ्गैर्गाहमानामिव निलिम्पपुरीम्, कामिनीजनकमनीयतमवीणानिनादैर्गायन्तीमिव, सुधाधवलिम्ना हसन्तीमिव सौधश्रेणीं वर्णयन्तं निजकान्तमप्राक्षीदायताक्षी ।

नभौ भरौ चेद्द्रुतविलम्बितं न यतिः पदि ॥


'न बरीभरीति कबरीभरे स्रजः' इत्यादिकालिदासोक्तिवत् । यद्यत्र कबरीति कबरीभरस्य स्वाङ्गत्वात्स्वत्वोपचार इत्युच्यते, तर्हि अत्रापि अतिप्रियसखीवात्स्वत्वोपचारः । रूपं तु ‘डुभृञ् धारणपोषणयोः' इत्यस्मात् धातोरेकाचः' इति यङि द्वित्वे 'यङोऽचि च' इति लुकि 'यङो वा' इतीटि 'ऋतश्च' इत्यभ्यासरीगागमे बरीभरीति इति । अत्रानुप्रासोपमयोः संसृष्टिः ॥ २८ ॥ समानिकेति । रजगला रगणजगणगुरुलघव । समानिकेति नाम ॥ शम्बरीति । शम्बरीकिशोरस्य मृगीशिशोर्लोललोचने इव स्थितयोर्लोललोचनयोश्चञ्चलनेत्रयोरञ्चलान्तरेण प्रदेशान्तेन । 'अञ्चलं च तट पुटम्' इति प्रकाशः । 'अन्तरमवकाशावधिव्यवधानान्तर्धिभेदतादर्थ्ये' इत्यमरमेदिन्यौ । प्रियमलमत्यन्तं सूचयन्ती सती । 'सूच पैशुन्ये' इत्यस्मात्स्वार्थणिजन्तात्कर्तरि शतृप्रत्ययः । श्रुतौ कर्णे । सख्या इति शेषः । किमपि ब्रवीति । 'ब्रूञ् व्यक्तायां वाचि' इत्यस्माल्लट् । अत्रौपमेयभूतस्य शम्बरीकिशोरलोचनस्य वाचकस्य चानुपादानाल्लुप्तोपमा ॥ २९ ॥ अथेति । अनन्तरम् । आयते अक्षिणी यस्यास्तथोक्ता । कलगीतप्रियेत्यर्थः । 'विशङ्कट पृथु बृहद्विशालं पृथुलं महत्' इति । 'कपोतपालिकाया तु विटङ्क पुंनपुंसकम्' इति चामरः । 'शालभङ्गी दारुगर्भा कुरण्टी दारुपुत्रिका' इति त्रिकाण्डशेषः । कलिन्दनन्दिनी कालिन्दी । भङ्गिः रीतिः । 'सकल सदृशं समम्' इति कमलाकरः । अप्राक्षीत् । 'प्रच्छ ज्ञीप्सायाम्' लुङ् ॥ नभाविति । नभौ नगणभगणौ भरौ भगणरगणौ चेत् द्रुतविलम्बितमिति नाम ॥