पृष्ठम्:मनोहरकाव्यमाला.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

संरूढकक्ष्यां बहुलां वमन्तःपुरमाविशत् । तत्र तामसितापानीं शोकमोहसमन्विताम् । ४८ । निदधे रावणः सीतां मयो मायामिवासुरीम् । अब्रवीच्च दशग्रीवः पिशाचीर्दर्शनाः ॥ ४६H यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः। मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ ५० ॥ यद्यदिच्छेत्तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ॥ ५१॥ अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ निष्क्रम्यान्तःपुरात्तस्मारत्किं कृत्यमिति चिन्तयन् ॥ ५२ ॥

     राम-निवर्तनम्।

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि न्यवर्तत ॥ १॥ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । करस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ २ ॥ स तस्य खरमाशाय दारुणं रोमहर्षणम् । शङ्कयामास गोमायोः खरेण परिशङ्कितः ॥३॥ अशुभं वत मन्येऽहं गोमायुर्वाशते यथा । खस्ति स्यादपि वैदेहा राक्षसैर्भक्षणं विना ॥ ४ ॥ तं दीनमानसं दीनमासेदुर्मृगपक्षिणः । सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः खरान् ॥५॥ तानि निमित्तानि महाघोराणि राघवः । न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥६॥