पृष्ठम्:मनोहरकाव्यमाला.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८६ ) आजगाम जनस्थानं चिन्तयन्नेव राघवः। ततो लक्ष्मणरामायान्तं ददर्श विगतप्रभम् ॥ ७॥ ततो विदूरे रामेण समीयाय स लक्ष्मणः । विषण्णः सन्विषण्णेन दुःखितो दुःखभागिना ॥८॥ स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम् । विहाय सीतां विजने वने राक्षससेविते ॥६॥ गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः । उवाच मधुरोदर्कमिदं परुषमार्तवत् ॥ १० ॥ अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् । सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति ॥ ११ ॥ न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा । विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥१२॥ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे । अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे ॥ १३ ॥ जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै । यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ॥ १४ ॥ वाशन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् । अपि स्वस्ति भवेत्तस्या राजपुत्र्या महावल ॥ १५ ॥ इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् । हतं कथंचिन्महता श्रमेण स राक्षसोऽन्भूम्रियमाण एव ॥ १६ ॥ मनश्च मे दीनमिहाप्रहृष्टं चतुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हता मृता वा पथि वर्तते वा ॥ १७ ॥