पृष्ठम्:मनोहरकाव्यमाला.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८० ) सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः । पुनर्व्यपहनच्छीमान्पतिराजो महाबलः ॥ ३४॥ स भग्न्धन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ ३५॥ निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् । तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः ॥ ३६ ॥ विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३७ ॥ स तदा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन्प्राकम्पत च राक्षसः ॥ ३८ ॥ ॥ संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजधाना” जटायुं क्रोधमूञ्छितः ॥ ३६ ॥ जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून्दश तदा व्यपाहरदरिंदमः ॥४०॥ संच्छिन्नबाहोः सद्यो वै बाहवः सहसाऽभवन् । विषज्वालावलीमुक्ता वल्मीकादिव पन्नगाः ॥४१॥ ततो मुहूर्तं संग्रामो बभूवाऽतुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ ४२ ॥ तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः । पक्षौ पादौ च पाचौं च खङ्गमुद्धृत्य सोऽच्छिनत् ॥ ४३ ॥ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात महागृध्रो धरण्यामल्पजीवितः ॥ ४४ ॥ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् । अभ्यधावत वैदेही स्ववन्धुमिव दुःखिता ॥ ४५ ॥ तं नीलजीमूतनिकाशकल्पं स पाण्डुरोरस्कमुदारवीर्यम् ।