पृष्ठम्:मनोहरकाव्यमाला.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८१ ) ददर्श लङ्काऽधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ ४६ ॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥४७॥ ---:००: लङ्का-प्रापणम्। तमल्पजीवितं गृधं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥१॥ सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ॥२॥ न नूनं राम जानासि महह्यसनमात्मनः । धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥३॥ अहं हि कृपया राम मां त्रातुमिह संगतः। शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः ॥४॥ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥५॥ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । श्रभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥६॥ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्चमुञ्चेति बहुशः प्राप तां राक्षसाधिपः ॥ ७H कोशन्तीं रामरामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ८॥ प्रघर्षितायां वैदेह्यां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाउन्धेन संवृतम् ॥EM