पृष्ठम्:मनोहरकाव्यमाला.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२७ ) कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ३४ ॥

१८. यक्ष उवाच- किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके । किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ ३५ ॥

युधिष्ठिर उवाच- धर्मार्थंब्राह्मणे दानं यशोऽर्थं नटनर्तके। भृत्येषु संग्रहार्थं च भयार्थं चैव राजसु ॥ ३६ ॥

१९. यक्ष उवाच- केनस्विदावृतो लोकः केनस्विन्न प्रकाशते । केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३७ ॥

युधिष्ठिर उवाच- अज्ञानेनावृतो लोकस्तमसा न प्रकाशते । लोभात्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ३८ ॥

२०. यक्ष उवाच- मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राद्धं मृतं कथं वा स्यात्कथं यज्ञो मृतो भवेत् ॥ ३९ ॥

युधिष्ठिर उवाच- मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ४० ॥

२१. यक्ष उवाच- का दिक्किमुदकं पार्थ किमन्नं किं च वै विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ४१ ॥

युधिष्ठिर उवाच- सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ४२ ॥