पृष्ठम्:मनोहरकाव्यमाला.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११० ) - हरिश्चन्द्रः। राज्य--दानम् । विश्वामित्र उवाच- मया पूर्व श्रुतं राजन्कीर्तिस्ते विपुला भुवि । वसिष्ठन च संप्रोक्तं दाता नास्ति महीतले ॥१॥ हरिश्चन्द्रो नृप श्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥२॥ पृथिव्यां परमोदारस्त्रिशंकुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिव । पुत्रस्य च महाभाग तदर्थं देहि मे धनम् ॥ ३ ॥ राजोवाच- विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव । यदिच्छसि धन कामं दाता तस्यास्मि निश्चितम् ॥ ४॥ व्यास उवाच- इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः । उद्भाव्य मायां गांधी पार्थिवायाऽप्यदर्शयत् ॥ ५॥ कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् । वेदीमध्ये नृपाऽद्य त्वं देहि दानं यथेप्सितम्। राजोवाच- किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ ६ ॥ अदेयमपि संसारे यशः कामोऽस्मि सांप्रतम् । व्यर्थ हि जीवितं तस्य विभवं प्राप्य येन वै। नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् ॥ ७ ॥ विश्वामित्र उवाच- राज्यं देहि महाराज वराय सपरिच्छदम् । गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने ॥८॥