पृष्ठम्:मनोहरकाव्यमाला.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०८ ) श्रावासः किन्नराणां च गन्धर्वभवनानि च । तानि युक्तो मया सार्धे समन्वेषितुमर्हसि ॥ १२८ ॥ त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः। आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥ १२६ ॥ इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः । क्रद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ॥ १३०॥ जटायुर्दर्शनम् । ततः पर्वतकृटाभं महाभागं द्विजोत्तमम् । ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ १ ॥ तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् । अनेन सीता वैदेही भक्षिता नात्र संशयः ॥२॥ गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् । एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैजिह्मगैः ॥३॥ इत्युक्त्वाभ्यपतद्द्रष्टुं संधाय धनुषि चुरम् । ऋद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ॥ ४॥ तं दीनदीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी स रामं दशरथात्मजम् ॥ ५॥ यामोषधीमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ ६ ॥ त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्ट्वा रावणेन बलीयसा ॥ ७ ॥ सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो। विध्वंसितरथच्छत्रः पतितो धरणीतले ॥ ८ ॥ एतदस्य धनुर्भग्नमेते चास्य शरास्तथा । श्रयमस्य रणे राम भग्नः साङ्ग्रामिको रथः ॥ ६॥