पृष्ठम्:मनोहरकाव्यमाला.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०७ ) महता तपसा चापि महता चापि कर्मणा । राक्षा दशरथेनासील्लब्धोऽमृतमिवामरैः ॥ ११५ ॥ तव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ ११६ ॥ यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्वाल्पसत्त्वश्च इतरः कः सहिष्यति ॥ ११७ ॥ श्राश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृशन्त्यग्निवद्राजन्क्षणेन व्यपयान्ति च ॥ ११८ ॥ लोकस्वभाव एवैष ययातिर्नहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् ॥ ११६ ॥ महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ १२० ॥ या चेयं जगतो माता सर्वलोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते कोशलेश्वर ॥ १२१ ॥ यौ धौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ १२२ ॥ सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ । न देवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥ १२३ ॥ दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ १२४ ।। किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ १२५ ॥ इदमेव जनस्थानं त्वमन्वेषितुमर्हसि । राक्षसैर्बहुभिः कीर्ण नानाद्रुमलतायुतम् ॥ १२६ ॥ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च। गुहाश्च विविधा घोरा नानामृगगणाकुलाः ॥ १२७ ॥