पृष्ठम्:मनोहरकाव्यमाला.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०३ ) अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ॥ ६५ ॥ उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कञ्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ॥ ६६ ॥ रामा रम्ये वनोद्देशे मया विरहिता त्वया । ऋद्धोऽब्रवीगिरि तत्र सिंहः क्षुद्रमृगं यथा ॥ ६७ ।। तां हेमवर्णा हेमाङ्गीं सीतां दर्शय पर्वत । यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ ६॥ एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे ॥ ६६ ॥ ततो दाशरथी राम उवाच च शिलोञ्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ ७० ॥ असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥ ७१ ॥ यदि नाख्याति मे सीतामद्यचन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा ॥ ७२ ॥ ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकाक्षिण्याः प्रधावन्त्या इतस्ततः ॥ ७३ ॥ राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥ ७४ ॥ भग्नं धनुश्च तूर्णी च विकीर्णं बहुधा रथम् । संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ ७५॥ पश्य लक्ष्मण वैदेहा कीर्णाः कनकविन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ ७६ ॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजविन्दुभिः । श्रावृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ ७७ ॥