पृष्ठम्:मनोहरकाव्यमाला.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०२ ) मन्ये दीघा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ ५२ ॥ सर्वाणनचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीरा मामीक्षन्ते पुनः पुनः ॥ ५३ ॥ वक्रुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्रा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ ५४ ॥ क्व सीतेति निरीक्षन्वै वाष्पसंरुद्धया गिरा। एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥ ५५ ॥ दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिश यामभ्यपद्यत ॥ ५६ ।। तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्ग च भूमि च निरीक्षन्ते स्म ते मृगाः॥ ५७ ॥ पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ ५८ ॥ उवाच लक्ष्मणो धीमाञ्ज्येष्ठं भ्रातरमार्तवत् । क सीतेति त्वया पृष्टा यदिमे सहसोत्थिताः ॥ ५६ ॥ दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम् ॥ ६० ॥ वाढमित्यव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् । लक्ष्मणानुगतः श्रीमान्वीक्षमाणो वसुंधराम् ॥ ६१ ॥ वसुन्धरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्टा रामो महीतले ॥ ६२ ॥ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः। अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ ६३ ॥ अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ ६४ ॥