पृष्ठम्:मनोहरकाव्यमाला.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०० ) तदप्ययुक्तं नहि सा कदाचिन् मया विना गच्छति पङ्कजानि ॥ ३२॥ कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पतिगणरुपेतम् । वनं प्रयाता नु तदप्ययुक्त- मेकाकिनी साऽतिबिभेति भीरुः ॥३३॥ श्रादित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा क्व गता हता वा शंसस्व मे शोकहतस्य सर्वम् ॥ ३४ ॥ लोकेषु सर्वेषु च नास्ति किञ्चिद् यत्तेन नित्यं विदितं भवेत्तत् । शंसस्व वायो कुलपालिनीं तां मृता हृता वा पथि वर्तते वा ॥ ३५॥ इतीव तं शोकविधेयदेहं राम विसंज्ञ विलपन्तमेव । उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम् ॥ ३६ ॥ शोकं विसृज्याद्य धृति भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मखतिदुष्करेषु ॥ ३७ ॥ इतीव सौमित्रिमुदापौरुषं ब्रुवन्तमात रघुवंशसत्तमः । न चिन्तयामास धृति विमुक्तवान् पुनश्च दुःखं महदप्युपागमत् ॥ ३८ ॥