पृष्ठम्:मनोहरकाव्यमाला.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ ३६॥ अपि गोदावरीं सीता पमान्यानयितुं गता। एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ॥ ४० ॥ नदी गोदावरी रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥ ४१ ॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ॥ ४२ ॥ नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥४३॥ रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ ४४ ॥ भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसु रामाय तथा गोदावरी नदी॥ ४५ ॥ ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत्सीतां पृष्टा रामेण शोवता ॥ ४६॥ रावणस्य च तद्रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ह ॥४७॥ निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रि सीतादर्शनकर्शितः॥४८॥ एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । कि तु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥ ४६॥ मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ ५० ॥ सर्व व्यपानयच्छोकं वैदेही क्व नु सा गता। शातिवर्गविहीनस्य वैदेहीमप्यपश्यतः ॥५१॥