पृष्ठम्:मनोहरकाव्यमाला.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८७ ) स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १८ ॥ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ १६॥ राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ २० ॥ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ २१ ॥ पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण । विना तां तपनीयामां नेच्छेयं जनकात्मजाम् ॥ २२ ॥ कञ्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कञ्चित्प्रवाजनं वीर न मे मिथ्या भविष्यति ॥ २३ ।। सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कञ्चित्सकामा कैकेयी सुखिता सा भविष्यति ॥ २४ ॥ सपुत्रराज्यां सिद्धार्थो मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कञ्चित्सौम्येन कैकेयीम् ॥ २५ ॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ २६ ॥ यदि मामाश्रमगतं वैदेही नाभिभाषते । पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ २७ ॥ हि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ २८ ॥ सुकुमारी च बाला च नित्यं चादुःखभागिनी । मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ २६ ॥ सर्वथा रक्षसा तेन जिलेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ ३०॥