पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ मनुस्मृतिः। [ अध्यायः ११ मैथुनं तु समासेव्य पुंसि योपिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ १७४ ॥ मैथुनमिति ॥ यत्र देशे क्वापि पुरुषे मैथुनं सेवित्वा स्त्रियां गोयाने शकटादौ जले दिवाकाले मैथुन च सेवित्वा सवस्त्रश्च स्नायात् ॥ १७४ ॥ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ १७५ ॥ चण्डालेति ॥ चण्डालस्यान्त्यजानां च म्लेच्छशरीरादीनामज्ञानतो ब्राह्मणः स्त्रियो गत्वा तेषां चान्नं भुक्त्वा तेभ्यः प्रतिगृह्य पतति । पतितस्य प्रायश्चित्तं कुर्यात् । एतच्च गुरुत्वाञ्चाभ्यासतो भोजनप्रनिग्रहविषयम् ॥ ज्ञानात्तु तेषां गमनं कृत्वा समानतां गच्छति । एतच्च प्रायश्चित्तगौरवार्थम् ॥ १७५ ॥ विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तच्चैनां चारयेद्रतम् ॥ १७६ ।। विप्रदुष्टामिति ॥ विशेषेण प्रदुष्टां । इच्छया व्यभिचारिणीमित्यर्थः । भर्ता निरु- न्ध्यात्पनों कार्येभ्यो निवर्त्य निगडबद्धामिवैकगृहे धारयेत् । यच्च पुरुषस्य सजाती- यपरदारगमने प्रायश्चित्तं तदेवैनां कारयेत् । ततश्च 'स्त्रीणामधं प्रदातव्यम्' इति यहसिष्टादिभिरुक्तं तदनिच्छया व्यभिचारे च कर्तव्यम् ॥ १७६ ॥ सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपयत्रिता। कृच्छं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥ १७७॥ सा चेदिति ॥ सा स्त्री सजातीयगमने सकृढुष्टा कृतप्रायश्चित्ता यदि पुनः सजा- तीयेनाभ्यर्थिता सती तद्गमनं कुर्यात्तदास्याः प्रायश्चित्तं प्राजापत्यं कृच्छ्रचान्द्रायणं च मन्वादिभिः स्मृतम् ॥ १७७ ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः । तद्भक्षभुग्जपन्नित्यं त्रिभिवयंपोहति ॥ १७८ ॥ यदिति ॥ वृषल्यत्र चण्डाली प्रायश्चित्तगौरवात् । चण्डालीगमने यदेकरानेण ब्राह्मणः पापमर्जयनि तद्भेक्षाशी नित्यं साविन्यादिकं जपन्त्रिभिर्वरैपनुदति।तथा चापस्तम्बः-'यदेकरात्रेण करोति पापं कृष्णं वर्ण ब्राह्मणः सेवमानः । चतुर्थकाल उदक आत्मजापी भैक्षचारी त्रिभिर्वस्तब्यपोहति पापम् ॥' मेधातिथिस्तु इत्थमेव व्याख्यातवान् । गोविन्दराजस्वक्रमपरिणीतशूद्रागमनप्रायश्चित्तमिदमाह॥१७॥ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः। पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ १७९ ॥ एषेति ॥ इयं हिंसाभक्ष्यभक्षणस्तेयागम्यागमनकारिणां चतुर्णामपि पापकृतां विशुद्धिरुता । इदानीं साक्षात्पापकृद्भिः सह संसर्गिणामिमा वक्ष्यमाणाः संशुद्धीः शृणुत ॥ १७९॥