पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४५३ । संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ १८० ॥ संवत्सरेणेति ॥ पतितेन सह संसर्गमाचरन् एकयानगमनकौसनोपवेशपति- भोजनरूपान्संसर्गानाचरन्संवत्सरेण पतति । नतु याजनाध्यापनाद्यौनान्संवत्सरेण पतति किंतु सद्य एवेत्यर्थः । अध्यापनमत्रोपनयनपूर्वकं सावित्रीश्रावणम् । याज- नादीनां च सद्यःपातित्यमाह देवल:-'याजनं योनिसंबन्धं स्वाध्यायं सह भोज. नम् । कृत्वा सद्यः पतन्त्येते पतितेन न संशयः ॥' विष्णुः-'आ संवत्सरात्पतति पतितेन सहाचरन् । सहयानासनाभ्यासाद्यौनात्तु सद्य एव हि ॥' बौधायनः- 'संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनात्सद्यो न शयनासनात् इति । गोविन्दराजस्तु याजनादीनां त्रयाणां संवत्सरेण पातित्यहेतुत्वं सहासना- दीनां लघुत्वान्न संवत्सरेण किंतु तस्मादूर्ध्वमपीति व्याचष्टे । अस्मदीयमनुव्याख्या मुनिव्याख्यानुसारिणी । नैनां गोविन्दराजस्य कल्पनामनुरुन्धमहे ॥ १८० ॥ यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ १८१॥ यो येनेति ॥ पतितशब्दोऽयं पापकारिवचनः सकलपापिनामविशेषपाठात् । एपां पतितानां मध्ये यो येन पापकारिणा सह पूर्वोक्तं संसर्ग करोति स तस्यैव व्रतरूपं प्रायश्चित्तं कुर्यान्नतु मरणान्तिकमित्यभिहितं तदपि व्रतं संसर्गिणा क्रियमाणं 'ब्रह्महा द्वादश समाः' इत्यादिकं पादहीनं कर्तव्यम् । तथाच व्यासः-'यो येन संसृजेद्वर्षं सोऽपि तत्समतामियात् । पादन्यून चरेत्सोऽपि तस्य तस्य व्रतं द्विजः' ॥ १८१ ॥ पतितस्योदकं कार्य सपिण्डैन्धिवैबहिः । निन्दितेऽहनि सायाह्ने ज्ञात्य॒त्विग्गुरुसंनिधौ ॥ १८२ ॥ पतितस्येति ॥ महापातकिनो जीवत एव प्रेतस्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डेः समानोदकैश्च ग्रामावहिर्गत्वा ज्ञात्य॒त्विग्गुरुसंनिधाने रिक्तायां नवम्यां तिथौ दिनान्ते कर्तव्या ॥ १८२ ॥ दासी घटमपां पूर्ण पर्यस्येत्प्रेतवत्पदा । अहोरात्रमुपासीरनशौचं बान्धवैः सह ॥ १८३ ॥ दासीति ॥ सपिण्डसमानोदकप्रयुक्ता दासी उदकपूर्व घटं प्रेतबदिति दक्षिणा- भिमुखीभूय पादेन क्षिपेत् यथा स निरुदको भवति । तदनु ते सपिण्डाः समा- नोदकैः सहाहोरात्रमशौचमाचरेयुः ॥ १८३ ॥ निवर्तेरैश्च तसात्तु संभाषणसहासने । दायाद्यस प्रदानं च यात्रा चैव हि लौकिकी ॥ १८४ ॥