पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अव्यायः १०] मन्वर्थमुक्तावलीसंवलिता। ४१५ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तु द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ ९९ ॥ अशक्नुवन्निति ॥ शूद्रः द्विजातिशुश्रूषां कर्तुमक्षमः क्षुदवसन्नपुत्रकलनः मूर- कारादिकर्मभिर्जीवेत् ॥ ९९ ॥ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥१०॥ चैरिति ॥ पूर्वोक्तकारुककर्मविशेषाभिधानार्थमिदम् । यैः कर्मभिः कृतैर्द्विजातयः परिचर्यन्ते तानि च कर्माणि तक्षणादीनि शिल्यानि च चित्रलिखितादीनि ना- नाप्रकाराणि कुर्यात् ॥ १० ॥ वैश्यवृत्तिमनातिष्ठन्त्रात्मणः स्खे पथि स्थितः। अवृत्तिकर्षितः सीदनिमं धर्म समाचरेत् ॥ १०१॥ वैश्येति ॥ ब्राह्मणो वृत्त्यभावपीडितोऽवसादं गच्छन् क्षत्रियवैश्यवृत्तिमनाति- ष्ठन् ‘स्वधर्मों वरं विगुणः' इत्युक्तत्वात्स्ववृत्तावेव वर्तमान इमां वक्ष्यमाणां वृत्तिम- नुतिष्ठेत् । अतश्च विगुणप्रतिग्रहादिस्ववृत्त्यसंभवे परवृत्त्याश्रयणं ज्ञेयम् ॥ १०१ ॥ सर्वतः प्रतिगृह्णीयाद्राह्मणस्त्वनयं गतः। पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ॥ १०२ ॥ सर्वत इति ॥ ब्राह्मण आपदं प्राप्तः सर्वेभ्योऽपि निन्दिततमेभ्यः क्रमेण प्रनि- ग्रहं कुर्यात् । अनार्थान्तरन्यासो नामालंकारः। यस्मात्पवित्रं गङ्गादि रथ्योदकादिनः दुप्यतीत्येतच्छास्त्रस्थित्या नोपपद्यते ॥ १०२ ॥ नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०३ ॥ यस्मात् नाध्यापनादिति ।। ब्राह्मणानामापदि गर्हिताध्यापनयाजनप्रतिग्रहैरधर्म न भवति । यस्मात्स्वभावतः पवित्रत्वेनाग्न्युदकतुल्यास्ते ॥ १०३ ॥ जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः। आकाशमिव पङ्केन न स पापेन लिप्यते ॥ १०४ ॥ जीवितेति ॥ यः प्राणात्ययं प्राप्तः प्रतिलोमजादन्नमश्नाति सोऽन्तरिक्षमिव कर्दमेन पापेन न संबध्यते ॥ १०४॥ अन्न परकृतिरूपाऽर्थवादमाह- अजीगतः सुतं हन्तुमुपासर्पदुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ १०५॥ अजीगत इति ॥ ऋषिरजीगर्ताख्यो बुभुक्षितः सन्, पुत्रं शुनःशेपनामानं स्वयं