पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ मनुस्मृतिः। [ अध्यायः १० सद्यः पतति मांसेन लाक्षया लवणेन च । यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ ९२ ॥ सद्य इति ॥ मांसलाक्षालवणविक्रयाह्मणस्तरक्षणादेव पततीति दोषगौरवव्या- ख्यानार्थमेतत्, पञ्चानामेव महापातकिनां पातित्यहेतूनां वक्ष्यमाणत्वात्। क्षीरविक्र- याध्यहेण शुद्धतां ग्रामोति । एतदपि दोषगौरवात्यायश्चित्तगौरवख्यापनार्थम्॥१२॥ इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ ९३॥ इतरेषामिति ॥ ब्राह्मण उक्तेभ्यो मांसादिभ्योऽन्येषां प्रतिषिद्धानां पण्यानामि- च्छातो नतु प्रमादाद्रव्यान्तरसंश्लिष्टानां सप्तरात्रविक्रयणेन वैश्यत्वं गच्छति ॥१३॥ रसा रसैनिमातव्या न त्वेव लवणं रसैः। कृतानं चाकृतान्नेन तिला धान्येन तत्समाः॥ ९४ ॥ रसा इति ॥ रसा गुडादयो रसैघृतादिभिः परिवर्तनीयाः । लवणं पुना रसान्त- रेण न परिवर्तनीय, सिद्धान्नं चामान्नेन परिवर्तनीयं, तिला धान्येन धान्यप्रस्थेने- त्येवं तत्समाः परिवर्तनीयाः ॥ ९४ ॥ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । न त्वेव ज्यायसी वृत्तिमभिमन्येत कहिंचित् ॥ ९५ ॥ जीवेदिति ॥ क्षत्रियः आपदं प्राप्तः एतेनेत्यभिधाय सर्वेण इत्यभिधानाद्राह्मण- गोचरतया निपिद्धेनापि रसादिविक्रयणेन वैश्यवजीवेन पुनः कदाचिद्राह्मणजी- विकामाश्रयेत् । न केवलं क्षत्रियः क्षत्रियवदन्योऽपि ॥ ९५ ।। यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ ९६ ।। यो लोभादिति ॥ यो निकृष्टजातिः सन्, लोभादुत्कृष्टजातिविहितकर्मभिर्जी- वेत्तं राजा गृहीतसर्वस्वं कृत्वा तदानीमेव देशान्निःसारयेत् ॥ ९६ ॥ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्मेण जीवन्हि सद्यः पतति जातितः॥ ९७॥ वरमिति ॥ विगुणमपि स्वकर्म कर्तुं न्याय्यं, न परकीयं संपूर्णमपि । यस्माजात्य- न्तरविहितकर्मणा जीवन् तत्क्षणादेव स्वजातितः पततीति दोषो वर्जनार्थः ॥१७॥ वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् । अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥९८॥ वैश्य इति ॥ वैश्यः स्ववृत्त्या जीवितुमशक्नुवन् शूद्रवृत्त्यापि द्विजातिशुश्रूषयो- च्छिष्टभोजनादीन्यकुर्वन् वर्तेत निस्तीर्णापत्क्रमशः शूद्रवृत्तितो निवर्तेत ॥ ९८ ॥