पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३७८ मनुस्मृतिः। [ अध्यायः १ यो ज्येष्ठो विनिकुति लोभादातॄन्यवीयसः। सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ २१३ ।। यो ज्येष्ठ इति ॥ यो ज्येष्ठो भ्राता लोभात्कनीयसो भ्रातृन्वञ्चयेत्स ज्येष्टभ्रातृ- पूजाशून्यः सोद्धारभागरहितश्च राजदण्ड्यश्च स्यात् ॥ २१३ ॥ सर्व एव विकर्मस्था नाहन्ति भ्रातरो धनम् । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥२१४ ।। सर्व एवेति ॥ अपतिता अपि ये भ्रातरो छूतवेश्यासेवादिविकर्मासक्तास्ते रिक्थं नार्हन्ति । नच कनिष्टेभ्योऽननुकल्प्य ज्येष्ठः साधारणधनादात्मार्थमसाधारणधनं कुर्यात् ॥ २१४॥ भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ २१५ ॥ भ्रातृणामिति ॥ भ्रातृणां पित्रा सहावस्थितानामविभक्तानां यदि सह धनार्ज- नार्थमुत्थानं भवेत्तदा विभागकाले न कस्यचित्पुनस्याधिकं पिता कदाचिद्दद्यात् २१५ ऊर्व विभागाजातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ २१६ ॥ ऊर्ध्वमिति ॥ यदा जीवतैव पित्रा पुत्राणामिच्छया विभागः कृतस्तदा विभागा- दूर्व जातः पुत्रः पितरि मृते पितृऋक्थमेव गृह्णीयात्।ये कृतविभागाः पित्रासह पुनर्मिश्रीकृतधनास्तैः सहासौ पितरि मृते विभजेत् ॥ २१६ ॥ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ २१७॥ अनपत्यस्येति ॥ अनपत्यस्य पुत्रस्य धनं माता गृहीयात्पूर्व 'पिता हरेदपुत्रस्य रिक्थम्' इत्युक्तत्वात् , इह माता हरेदित्यादि याज्ञवल्क्येन 'पितरौं' इत्येकशेष- करणात्, विष्णुना च -'अपुत्रस्य धनं पल्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि' इत्येकशेषस्यैव कृतत्वात् , मातापितरौ विभज्य गृह्णीयाताम् । मातरि मृतायां पदीपितृभ्रातृभ्रातृजाभावे पितुर्माता धनं गृह्णीयात् ॥ २१७ ॥ ऋणे धने च सर्वसिन्प्रविभक्ते यथाविधि । पश्चादृश्येत यत्किचित्तत्सर्वं समतां नयेत् ॥ २१८ ॥ ऋण इति ॥ ऋणे पित्रादिधार्यमाणे धने च तदीये सर्वस्मिन्यथाशास्त्रं विभत्ते सति पश्चाद्यत्किंचित्पैतृकं ऋण धनं वा विभागकालेऽज्ञातमुपलभ्येत तत्सर्वं समं कृत्वा विभजनीयं, नतु शोध्यं ग्राह्यं नवा ज्येष्ठस्योद्धारो देयः ॥ २१८॥ .