पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] भन्वर्थमुक्तावलीसंवलिता। वस्त्रं पत्रमलंकारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ २१९ ॥ वस्त्रमिति ॥ वस्त्रं वाहनमाभरणमविभागकाले ययेनोपभुक्तं तत्तस्यैव न विभा- ज्यम् । एतच्च नातिन्यूनाधिकमूल्यविषयम् । यत्तु बहुमूल्यमाभरणादिकं तद्विभा- ज्यमेव । तद्विषयमेव "विक्रीय वस्त्राभरणम्' इति बृहस्पतेर्विभागवचनम् । कृतान्न- मोदनसक्त्वादि तन्न विभजनीयम् । तत्रातिप्रचुरतरमूल्यं सक्त्वादि तावन्मात्रमू- ल्यधनेन 'कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते' इति बृहस्पतिवचनाद्विभजनी- अमेव । उढ़क कूपादिगतं सर्वैरुपभोग्यमविभजनीयम् । स्त्रियो दास्याद्या यास्तुल्य- भागा न भवन्ति ता न विभाज्याः । किंतु तुल्यं कर्म कारयितव्याः । योगक्षेमं मन्त्रिपुरोहितादि योगक्षेमहेतुत्वात् । प्रचारो गवादीनां प्रचारमार्गः एतत्सर्व मन्वादयोऽविभाज्यमाहुः ॥ २१९ ॥ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः। क्रमशः क्षेत्रजादीनां द्यूतधर्म निबोधत ॥ २२० । अयमिति ॥ एष दायभागः पुत्राणां क्षेत्रजादीनां क्रमेण विभागकरणप्रकारो युप्माकमुक्तः । इदानी द्यूतव्यवस्थां शृणुत ॥ २२० ॥ द्यूतं समाह्वयं चैव राजा राष्ट्रानिवारयेत् । राजान्तकरणावेतौ द्वौ. दोषौ पृथिवीक्षिताम् ॥ २२१ ॥ द्यूतमिति ॥ द्यूतसमाह्वयौ वक्ष्यमाणलक्षणौ राजा स्वराष्ट्रान्निवर्तयेत् । यस्मा- देतौ द्वौ दोषौ राज्ञां राज्यविनाशकारिणौ ॥ २२१ ॥ प्रकाशमेतत्तास्कर्य यद्देवनसमाह्वयौ । तयोनित्यं प्रतीपाते नृपतिर्यनवान्भवेत् ॥ २२२ ॥ प्रकाशमिति ॥ प्रकटमेतञ्चौर्यं यद्द्यूतसमाह्वयौ, तस्मात्तन्निवारणे राजा नित्यं यत्नयुक्तः स्यात् ॥ २२२ ॥ अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ २२३ ॥ अप्राणिभिरिति ॥ अक्षशलाकादिभिरप्राणैर्यत्क्रियते तल्लोके द्यूतं कथ्यते । यः पुनः प्राणिभिर्मेपकुक्कुटादिभिः पणपूर्वकं क्रियते स समायो ज्ञेयः । लोकप्रसिद्ध- योरप्यनयोर्लक्षणकथनं परिहारार्थम् ॥ २२३ ॥ द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान्सर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः॥ २२४ ॥ पूतमिति ॥ द्यूतसमाह्वयौ यः कुर्याद्यो वा सभिकः कारयेत्तेषामपराधापेक्षया राजा हस्तच्छेदादि वधं कुर्यात् । यज्ञोपवीतादिद्विजचिह्नधारिणः शूद्रान्हन्यात् २२४