पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। तथा च श्रुतयो बढ्यो निगीता निगमप्वपि । स्वालक्षण्यपरीक्षार्थ तासां शृणुत निष्कृतीः ॥ १९ ॥ तथा चेति ॥ व्यभिचारशीलत्वं स्त्रीणां स्वभाव इत्युक्तं तत्र श्रुति प्रमाणतयो- पन्यस्यति । तथा बढ्यः श्रुतयो बहूनि श्रुतिदाक्यानि 'न चैतद्वियो ब्राह्मणाः मोऽब्राह्मणा वा' इत्येवमादीनि निगमेषु स्वालक्षण्यं व्यभिचारशीलवं तत्परि- ज्ञानार्थं पठितानि । तासां श्रुतीनां मध्ये या निष्कृतिरूपा व्यनिचारप्रायश्चित्त- भूतास्ताः श्रुतीः शृणुत । एकस्याः श्रुतेर्वेक्ष्यमाणवाच्छ्रुति शृगुतेत्यर्थः । 'सुपा सुपो भवन्ति' इति द्वितीयैकवचने बहुवचनम् ॥ १९ ॥ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता। तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम् ॥ २० ॥ यदिति ॥ कश्चित्पुत्रो मातुर्मानसव्यभिचारमवगम्य ब्रूते । मनोवाक्कायकर्मभिः पतिव्यतिरिक्तं पुरुपं या न कामयते सा पतिव्रता ततोऽन्याऽपतिव्रता । मम माता अपतिव्रतासती परगृहान्गच्छन्ती यत्प्रलुलुभे परपुरुषं प्रति संजातलोभा- भूत्तत्पुरुषसंकल्पदुष्टं मातृरजोरूपं रेतो मम पिता शोधयन्वित्यस्य स्त्रिया व्यभि- चारशीलत्वस्यैतदितिकरणान्तं मत्रपादत्रयं ज्ञापकम् । अयं च मन्त्रश्चातुर्मा- स्यादिषु विनियुक्तः ॥ २० ॥ संप्रति मानसव्यभिचारप्रायश्चित्तरूपतामस्य मन्त्रस्याह- ध्यायत्यनिष्टं यत्किचित्पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निदवः सम्यगुच्यते ॥ २१ ॥ ध्यायतीति ॥ भर्तुरप्रियं यत्किंचित्पुरुषान्तरगमनं स्त्री मनसा चिन्तयति तस्य मानसस्य व्यभिचारस्यैष प्रकृतो मन्त्रः सम्यक् शोधनो मन्वादिभिरुच्यते । मातेति श्रवणात्पुत्रस्यैवायं प्रायश्चित्तरूपो मत्रो न मातुः ॥ २१ ॥ यादृग्गुणेन भर्ना स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ २२ ॥ यादृग्गुणेनेति ॥ यथारूपेण भर्ना साधुनासाधुना वा स्त्री विवाहविधिना संयु- ज्यते सा भर्तृसदृशगुणा भवति । यथा समुद्रेण संयुज्यमाना नदी स्वादूदकापि क्षारजला जायते । भर्तुरात्मसमानाख्यस्त्रीरक्षणोपायान्तरोपदेशार्थमिदम् ॥ २२ ॥ अनोत्कर्षदृष्टान्तमाह- अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा। शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ २३ ॥