पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः९ अक्षमालेति ॥ अक्षमालाख्या निकृष्टयोनिजा वसिष्ठेन परिणीता, तथा चटका मन्दपालाख्येन ऋषिणा संगता पूज्यतां गता ॥ २३ ॥ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रमूतयः। उत्कर्ष योषितः प्राप्ताः स्वैः स्वैर्भर्टगुणैः शुभैः ॥ २४ ॥ एता इति ॥ यद्यपि द्वे प्रकृते तथापि प्रदर्शनार्थत्वमनयोभत्वा एता इति बहु- वचनं कृतम् । एताश्चान्याश्च सत्यवत्यादयो निकृष्टप्रसूतयः स्वभर्तृगुणः प्रकृष्टैर- स्मिल्लोके उत्कृष्टतां प्राप्ताः ॥ २४ ॥ एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । प्रेत्येह च सुखोदकान्यजाधर्मान्निबोधत ॥ २५ ॥ एषेति ॥ एष लोकाचारो जायापतिविपयः सदा शुभ उक्तः । इदानीमिह लोके परलोके चोत्तरकालशुभसुखहेतून् ‘किं क्षेत्रिणोऽपत्यसुत बीजिनः' इत्यादी- न्यजाधर्मान्द्रगुत ॥ २५ ॥ प्रजनार्थं महाभागाः पूजाहाँ गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ २६ ॥ प्रजनार्थमिति ॥ यद्यप्यासा रक्षणार्थ दोषा उक्तास्तथापि शक्यप्रतीकारत्वादिह दोषाभावः। एताः स्त्रियो महोपकारा गर्भोत्पादनार्थ बहुकल्याणभाजनभूता वस्त्रालं- कारादिदानेन संमानाही. स्वगृहे शोभाकारिण्यः स्त्रियः श्रियश्च गेहेयु तुल्यरूपाः । नानयोर्विशेषो विद्यते । यथा निःश्रीकं गृहं न राजत्येवं नि.स्त्रीकमिति ॥ २६ ॥ उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ २७ ॥ अपिच उत्पादन मिति ॥ अपत्यस्य जननं जातस्य परिपालनं प्रतिदिनं चातिथिमित्रभोजनादेर्लोकव्यवहारस्य प्रत्यक्षं भायव निदानम् ॥ २७ ॥ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ २८ ॥ अपत्यमिति ॥ अपत्योत्पादनमुक्तमप्येतदभ्यर्हितत्वज्ञापनार्थं पुनरभिधानम् । धर्मकार्याण्यग्निहोत्रादीनि, परिचर्या, उत्कृष्टा रतिः, पितॄणामात्मनश्चापत्यजनना- दिना स्वर्ग इत्येतत्सर्वं भार्याधीनम् ॥ २८ ॥ पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥२९॥ पतिमिति ॥ या स्त्री मनोवाग्देहसंयता सतीति विशेषणोपादानसामर्थ्यान्मनो- वाग्देहैरेव न व्यभिचरति सा भर्ना सहार्जितान्स्वर्गादिलोकान्प्रामोति । इह लोके च विशिष्टैः साध्वीत्युच्यते ॥ २९ ॥