पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ मनुस्मृतिः । [अध्यायः ८ शस्त्रं द्विजातिभिग्राह्य धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥३४८॥ आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण न दुष्यति ॥ ३४९ ॥ शस्त्रमिति ॥ आत्मनश्चेति ॥ ब्राह्मणादिभिस्विभिर्वर्णैः खड्गाद्यायुधं ग्रहीतव्यम्। यस्मिन्काले वर्णानामाश्रमिणां च साहसकारादिभिर्धर्मः कर्तुं न दीयते । तथा त्रैवर्णिकानामराजकेषु राष्ट्रेषु परचक्रागमनादिकालजनिते स्वीसङ्गरादौ प्राप्ते तथात्मरक्षाथै दक्षिणाधनगवाद्यपहारनिमित्ते च संग्रामे स्त्रीब्राह्मणरक्षार्थं च धर्म- युद्धेनानन्यगतिकतया परान् हिंसन्न दोषभाग्भवति । परमारणेऽप्यत्र साहस- दण्डो न कार्यः ॥ ३४८ ॥ ३४९ ॥ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ३५० ॥ गुरुं वेति ॥ गुरुबालवृद्धबहुश्रुतब्राह्मणानामन्यतमं वधोद्यतमागच्छन्तं विद्या- वित्तादिभिरुत्कृष्टं पलायनादिभिरपि स्वनिस्तरणाशक्तौ निर्विचारं ह्रन्यात् । अत. एवोशना:-'गृहीतशस्त्रमाततायिनं हत्वा न दोषः'। कात्यायनश्च भृगुशब्दोल्लेखेन मनूक्तश्लोकमेव व्यक्तं व्याख्यातवान्-'आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः। वधस्तत्र तु नैव स्यात्पापं हीने वध भृगुः ॥' मेधातिथिगोविन्दराजौ तु 'स्त्रीवि- प्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति' इति पूर्वस्यायमनुवादः । गुर्वादिकमपि हन्यात्किमुतान्यमपीति व्याचक्षाते ॥ ३५० ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ३५१॥ नेति ॥ जनसमक्षं रहसि वा वधोद्यतस्य मारणे हन्तुर्न कश्चिदप्यधर्मदण्डः प्रायश्चित्ताख्यो दोषो भवति । यस्माद्धन्तृगतो मन्युः क्रोधाभिमानिनी देवता हन्यमानगतं क्रोधं विवर्धयति । साहसे चापराधगौरवापेक्षया मारणाङ्गच्छेदनध- नग्रहणादयो दण्दा कार्याः ॥ ३५१ ॥ इदानीं स्त्रीसंग्रहणमाह- परदाराभिशेषु प्रवृत्तानृन्महीपतिः । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ ३५२ ।। परदारेति ॥ परदारसंभोगाय प्रवृत्तान्मनुष्यगणानुद्वेजनकरैर्दण्डै सौष्टकर्तना- दिभिरङ्कयित्वा देशान्निःसारयेत् ॥ ३५२ ॥ तत्समुत्थो हि लोकस्य जायते वर्णसंकरः। येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ ३५३ ॥