२३८
मनुस्मृतिः।
[अध्यायः ७
पानमिति ॥ मद्यपानं, अक्षैः क्रीडा, स्त्रीसंभोगो मृगया चेति क्रमपठितमेतच्च-
तुष्कं कामजव्यसनमध्ये बहुदोषत्वादतिशयेन दुःखहेतुं जानीयात् ॥ ५० ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥५१॥
दण्डस्येत्यादि । दण्डपातनं, वाक्पारुष्यं अर्थदूपणं चेति क्रोधजेऽपिव्यसनगणे
दोषबहुलत्वादतिशयितदुःखसाधनं मन्येत ॥ ५१ ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ५२ ॥
सप्तकस्येति ॥ अस्य पानादेः कामक्रोधसंभवस्य सप्तपरिमाणस्य व्यसनवर्गस्य
सर्वस्मिन्नेव राजमण्डले प्रायेणावस्थितस्य पूर्वपूर्वव्यसनमुत्तरोत्तरात्कष्टतरं प्रश-
स्तात्मा राजा जानीयात् । तथाहि द्यूतात्मानं कष्टतरं, मद्यपानेन मत्तस्य संज्ञा-
प्रणाशाद्यथेष्टचेष्टया देहधनादिविरोध इत्यादयो दोषाः । द्यूते तु पाक्षिकी-
धनावाप्तिरप्यस्ति । स्त्रीव्यसनायूतं दुष्टम् । द्यूते हि वैरोद्भवादयो नीतिशा-
स्रोक्ता दोषाः । मूत्रपुरीषवेगधारणाच व्याध्युत्पत्तिः । स्त्रीव्यसने पुनरपत्योत्पत्त्या-
द्विगुणयोगोऽप्यस्ति । मृगयास्त्रीव्यसनयोः स्वीव्यसनं दुष्टम् । तत्रादर्शनकार्याणां
कालातिपातेन धर्मलोपादयो दोषाः, मृगयायां तु व्यायामेनारोग्यादिगुण-
योगोऽप्यस्तीत्येवं कामजचतुष्कस्य पूर्वं पूर्व गुरुदोषं, क्रोधजेप्वपि त्रिषु वाक्पा-
रुप्याद्दण्डपारुप्यं दुष्टम् । अङ्गच्छेदादेरशक्यसमाधानत्वात् । वाक्पारुष्ये तु
कोपानलो दानमानपानीयसेकैः शक्यः शमयितुम् । अर्थदूपणाद्वाक्पारुष्यं दो-
षवन्मर्मपीडाकरं, वाक्पहारस्य दुश्चिकित्स्यत्वात् । तदुक्तं न संरोहयति वाकृतं ।
अर्थदूषणं तु प्रचुरतरार्थदानाच्छक्यसमाधानं, एवं क्रोधजत्रिकस्यापि पूर्वपूर्व दु-
ष्टतरं यत्नतस्त्यजेत् ॥ ५२ ॥
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ५३॥
व्यसनस्येति ॥ यद्यपि मृत्युव्यसने द्वे अपीह लोके संज्ञाप्रणागादिदुःखहेतुतया
शास्त्रानुष्ठानविरोधितया च तुल्ये, तथापि व्यसनं कष्टतरं परत्रापि नरकपातहेतु-
त्वात् । तदाह व्यसन्यधोधो ब्रजतीति । बहून्नरकान्गच्छतीत्यर्थः । अव्यसनी तु
मृतः शास्त्रानुष्ठानप्रतिपक्षव्यसनाभावात्स्वर्गं गच्छति । एतेनातिप्रसक्तिर्व्यसनेषु
निषिध्यते नतु तस्य सेवनमपि ॥ ५३ ॥
मौलाञ्छास्त्रविदः शूराँल्लब्धलक्षान्कुलोद्भवान् ।
सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ५४ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
