पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ७ तेभ्य इत्यादि ॥ सहजप्रज्ञया अर्थशास्त्रादिज्ञानेन च विनीतोऽप्यतिशयार्थ तेभ्यो विनयमभ्यसेत् । यसाद्विनीतात्मा राजा न कदाचिन्नश्यति ॥ ३९ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः। वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥४॥ वहव इत्यादि ॥ करितुरगकोशादिपरिच्छदयुक्ता अपि राजानो विनयरहिता नष्टाः । बहवश्च वनस्था निप्परिच्छदा अपि विनयेन राज्यं प्रामुवन् ॥ ४० ॥ उभयत्रैव श्लोकद्वयेन दृष्टान्तमाह- वेनो विनष्टोऽविनयान्नहुपश्चैव पार्थिवः । सुदा जवनश्चैव सुमुखो निमिरेव च ॥४१॥ वेन इत्यादि ॥ वेनो नहुपश्च राजा पिजवनस्य च पुनः सुदानामा सुमुखो निमिश्वाविनयादनश्यन् ॥ ४१ ॥ पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुवेरश्च धनैश्वर्य ब्राह्मण्यं चैव गाधिजः॥ ४२ ॥ पृथुरिनि ॥ पृथुर्मनुश्च विनयाद्राज्यं प्रापतुः । कुबेरश्च विनयाद्धनाधिपत्यं लेभे ! गाधिपुत्रो विश्वामित्रश्च क्षत्रियः संस्तेनैव देहेन ब्राह्मण्यं प्राप्तवान् । राज्यलाभावसरे ब्राह्मण्यप्राप्तिरप्रस्तुतापि विनयोत्कर्षार्थमुक्ता । ईदृशोऽयं शा- खानुष्टाननिपिद्धवर्जनरूपो बिनयो यदनेन क्षत्रियोऽपि दुर्लभ ब्राह्मण्यं लेभे॥१२॥ त्रविद्येभ्यस्त्री विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वारिम्भांश्च लोकतः॥४३॥ त्रैविद्येभ्य इति ॥ त्रिवेदीरूपविद्याविन्यस्त्रिवेदीमर्थतो ग्रन्थतश्चाभ्यसेत् । ब्रह्म- चर्यदशायामेव वेदग्रहणात्समावृत्तस्य च राज्याधिकारात् । अभ्यासार्थोऽयमुपदेशः। दण्डनीति चार्थशास्त्ररूपामर्थयोगक्षेमोपदेशिनी पारम्पर्यागतत्वेन नित्यां त- द्विच्चोऽधिगच्छेत् । तथा आन्वीक्षिकी तर्कविद्यां भूतप्रवृत्तिप्रयुक्त्युपयोगिनी ब्रह्मविद्यां चाभ्युदयव्यसनयोहर्षविपादप्रशमनहेतुं शिक्षेत । कृषिवाणिज्यपशुपा- लनादिवार्ता तदाररभान्धनोपायाथास्तदभिज्ञकर्षकादिभ्यः शिक्षेत ॥ ४३ ॥ इन्द्रियाणां जये योगं समातिष्टेदिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४४॥ इन्द्रियाणामित्यादि ॥ चक्षुरादीनामिन्द्रियाणां विषयासक्तिवारणे सर्वकालं यत्नं कुर्यात् । यस्माजितेन्द्रियः प्रजा नियन्नुं शक्नोति नतु विपयोपभोगव्यग्रः । ब्रह्मचारिधर्मेषु सर्वपुरुपोपादेयतयाभिहितोऽपीन्द्रियजयो राजधर्मेषु मुख्यत्व- ज्ञानार्थमनन्तरवक्ष्यमाणव्यसननिवृत्तिहेतुत्वाच्च पुनरुतः ॥ ४४ ॥