पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। स्वराष्ट्र इति ॥ आत्मदेशे यथाशास्त्रव्यवहारी स्यात् । शत्रुविषयेषु तीक्ष्णदण्डो भवेत् । निसर्गस्नेहविषयेषु मिनेष्वकुटिलः स्यान्न कार्यमित्रेषु । ब्राह्मणेषु च कृता- ल्पापराधेषु च क्षमावान्भवेत् ॥ ३२ ॥ एवंवृत्तस्य नृपतेः शिलोच्छेनापि जीवतः। विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ३३ ॥ एवमित्यादि ॥ शिलोज्छेनेति क्षीणकोशत्वं विवक्षितम् । क्षीणकोशेस्यापि नृपतेरुक्ताचारवतो जले तैलबिन्दुरिव कीर्तिों के विस्तारमेति ॥ ३३ ॥ अतस्तु विपरितस्य नृपतेरजितात्मनः। संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ३४ ॥ अत इति ॥ उक्ताचाराद्विपरीताचारवतो नृपतेरजितेन्द्रियस्य जले घृतबिन्दु- रिव कीर्तिः लोके संकोचयति ॥ ३४ ॥ खे वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः। वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ३५॥ खे स्वे इत्यादि ॥ क्रमेण स्वधर्मानुष्टातॄणां ब्राह्मणादिवर्णानां ब्रह्मचार्याद्याश्र- माणां च विश्वसृजा राजा रक्षिता सृष्टः । तस्मात्तेषां रक्षणमकुर्वतो राज्ञः प्रत्यवायः स्वधर्मविरहिणां त्वरक्षणेऽपि न प्रत्यवाय इत्यस्य तात्पर्यार्थः ॥ ३५ ॥ तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः। तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ३६ ॥ तेनेत्यादि । वक्ष्यमाणावतारार्थोऽयं श्लोकः । तेन राज्ञा प्रजारक्षणं कुर्वता सामात्येन यद्यत्कर्तव्यं तत्तत्समग्रं युष्माकमभिधास्यामि ॥ ३६ ॥ ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । विद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने ॥ ३७॥ ब्राह्मणानिति ॥ प्रत्यहं प्रातरुत्थाय ब्राह्मणानृग्यजुःसामाख्यविद्यानयनन्थार्था- भिज्ञान्विदुष इति नीतिशास्त्राभिज्ञान्सेवेत तदाज्ञां कुर्यात् ॥ ३७ ॥ वृद्धाश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ३८ ॥ वृद्धानित्यादि ॥ तांश्च ब्राह्मणान्वयस्तपस्यादिवृद्धानर्थतो ग्रन्थतश्च वेदज्ञान्बहि- रन्तश्चार्थदानादिना शुचीन्नित्यं सेवेत । यस्माद्धसेवी सततं हिंसै राक्षसैरपि पूज्यते तैरपि तस्य हितं क्रियते । सुतरां मनुष्यैः ॥ ३८ ॥ तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः। विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३९ ॥