पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३३ . ल्पबलानां हिंसामकरिप्यन्नित्यर्थः । 'शूले मत्स्यानिवापक्ष्यन्' इत्येष मेधातिथि- गोविन्दराजलिखितः पाठः । 'जले मत्स्यानिवाहिंस्युः' इति च पाठान्तरम् । अत्र बलवन्तो दुर्बलान्हिस्युरिति मत्स्यन्याय एव स्यादित्युक्तम् ॥ २० ॥ अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा । खाम्यं च न स्यात्कसिंश्चित्प्रवर्तेताधरोत्तरम् ॥ २१ ॥ अद्यादिति ॥ यदि राजा दण्डं नाचरिप्यत्तदा यज्ञेषु सर्वथा हविरनहः काकः पुरोडाशमखादिप्यत् । तथा कुक्कुरः पायसादि हविरलेक्ष्यत् । न कस्यचित्कुत्रचि- त्स्वाभ्यमभविप्चत् । ततो बलिना तहणाब्राह्मणादिवर्णानां च मध्ये यदवरं शूद्रादि तदेवोत्तरं प्रधानं प्रावर्तिप्यत ॥ २१ ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ २२॥ सर्व इति ॥ सर्वोयं लोको दण्डेनैव नियमितः सन्मार्गेऽवतिष्ठते । स्वभाववि- शुद्धो हि मानुपः कष्टेन लभ्यते । तथा सर्वमिदं जगद्दण्डस्यैव भयादावश्यकभो- जनादिरूपेपि भोगे समर्थं भवति ॥ २२ ॥ उक्तमपि दण्डस्य भोगसंपादकत्वं दायार्थ पुनरुच्यते- देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेऽपि भोगाय कल्पत दण्डेनैव निपीडिताः ॥ २३ ॥ देवेति ॥ इन्द्राग्निसूर्यवाय्वादयो देवास्तथा दानवगन्धर्वराक्षसपक्षिसा अपि जगदीश्वरपरमार्थभयपीडिता एव वर्षदानाद्युपकाराय प्रवर्तन्ते । तथाच श्रुतिः- 'भयावस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम इनि' ॥ २३॥ दुप्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेदण्डस्य विभ्रमात् ॥ २४ ॥ दुप्येयुरिति ॥ दण्डस्यानाचरणादनुचितेन वा प्रवर्तनात्सर्वे ब्राह्मणादिवर्णा इतरेतरस्त्रीगमनेन संकीर्येरन् , सर्वशास्त्रीयनियमाश्चतुर्वर्गफला उत्सीदेयुः, चौर्य- साहमादिना व परस्यापकारात्सर्वलोकसंक्षोभश्चाजायेत ॥ २४ ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ २५॥ यत्रेति॥ यन्त्र देशे शास्त्रप्रमाणावगतः श्यामवर्णः लोहितनयनोऽधिष्ठातृदेवताको दण्डो विचरति तत्र प्रजा व्याकुला न भवन्ति । दण्डप्रणेता यदि विषयानुरूपं सम्यग्जानाति ॥ २५ ॥ -