पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ मनुस्मृतिः। [अध्यायः ७ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ १५ ॥ तस्येत्यादि ॥ तस्य दण्डस्य भयेन चराचराः सर्वे प्राणिनो भोगं कर्तुं समर्था भवन्ति, अन्यथा बलबता दुर्बलस्य धनदारादिग्रहणे तस्यापि तदपश्य बलिनेति कस्यापि भोगो न सियेत्, वृक्षादीनां स्थावरादीनां छेदने भोगासिद्धिः, तथा सतामपि नित्यनैमित्तिकस्वधर्मानुष्टानमकरणे याम्ययातनाभयादेव ॥ १५ ॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः। यथार्हतः संप्रणयेन्नेरेप्वन्यायवर्तिषु ॥ १६ ॥ तमित्यादि ॥ तं दण्डं देशकालो दण्ड्यस्य च शक्ति विद्यादिकं यस्मिन्नपराधे यो दण्डोऽर्हतीत्यादिकं शास्त्रानुसारेण तत्त्वतो निरूप्यापरुधिषु प्रवर्दयेत् ॥१६॥ स राजा पुरुषो दण्डः स नेता शासिता च सः। चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ १७ ॥ स इत्यादि ॥ स एव दण्डो वस्तुतो राजा तस्मिन् सति राजशक्तियोगात् । स एव पुरुपस्ततोऽन्ये स्त्रिय इब तद्विधेयत्वात्, स एव नेता तेन कार्याणि नीयन्ते प्राप्यन्ते, स एव शासिता शासनमाज्ञा तहातृत्वात्, स एव चतुर्णामप्याश्रमाणां यो धर्मस्तस्य संपादने प्रतिभूरिव प्रतिभूर्मुनिभिः स्मृतः ॥ १७ ॥ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षनि । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ १८ ॥ दण्डः शास्तीति ॥ यस्माइण्डः सर्वाः प्रजा आज्ञां करोति तस्मात्साधूक्तं शासि- तेति ज्ञेयम् । यस्मात्स एव प्रजा रक्षति ततो युक्तमुक्तं राजेति । निद्राणेष्वपि रक्षितृपु दण्ड एव जागर्ति तद्भयेनैव चौरादीनामप्रवृत्तेः। दण्डमेव धर्महेतुत्वाद्धर्म जानन्ति । कारणे कार्योपचारः । ऐहिकपारत्रिकदण्डभयादेव धर्मानुष्ठानात् ॥८॥ समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥ १९ ॥ समीक्ष्येत्यादि ॥ स दण्डः शास्त्रतः सम्यङिरूप्यापराधानुरूपेण देहधनादिषु धृतः सर्वाः प्रजाः सानुरागाः करोति । अविचार्य तु लोभादिना प्रयुक्तः सर्वाणि बाह्यार्थपुत्रादीनि नाशयति । सर्वत इति द्वितीयार्थे तसिः ॥ १९ ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्चलवत्तराः ॥२०॥ यदीत्यादि ॥ यदि राजानलसो भूत्वा दण्डप्रणयनं न कुर्यात्तदा शूले कृत्वा मत्स्यानिव बलवन्तो दुर्बलानपक्ष्यन् । लुङन्तस्य पचिधातो रूपमिदम् । बलिनो-