पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] नन्वर्थमुक्तावलीसंवलिता। २२१ एककालमिति ॥ एकवारं प्राणधारणार्थ भैक्षं चरेत् । तत्रापि प्रचुरभिक्षाप्रसङ्गं न कुर्यात् । यतो बहुतरभिक्षाभक्षणप्रसक्तो यतिः प्रधानधातुवृद्ध्या ख्यादिविपये- वपि प्रसजते ॥ ५५॥ विषमे सन्नमुसले व्यङ्गारे भुक्तवजने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ५६ ॥ विधूम इत्यादि ॥ विगतपाकधूमे, निवृत्तावहननमुसले, निर्वाणपाकाङ्गारे, गृ- हस्यपर्यन्तभुक्तवजने, उच्छिष्टशरावेषु त्यक्तेषु, सर्वदा यतिर्भिक्षा चरेत् । एतच्च दिनशेपमुहूर्तत्रयरूपसायाह्नोपलक्षणम् । तथाह याज्ञवल्क्यः-'अप्रमत्तश्वरेबॅक्ष्यं सायाह्ने नाभिसंधितः' ॥ ५६ ॥ अलाभे न विपादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ५७ ॥ अलाभ इत्यादि ॥ भिक्षादेरलाभे न विषीदेत् । लाभे च हर्ष न कुर्यात् । प्राणस्थितिमात्रोपचितान्नभोजनपरः रः स्यात् । दण्डकमण्डलुमात्रास्वपि इदमशोभनं त्यजामि इदं रुचिरं गृह्णामि इत्यादिप्रसङ्गं न कुर्यात् ॥ ५७ ॥ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः। अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बद्ध्यते ॥ ५८ ॥ अभीत्यादि ॥ पूजापूर्वकभिक्षालाभं सर्वकालं निन्देत् । न स्वीकुर्यादित्यर्थः । यस्मात्पूजापूर्वकलाभस्वीकारे दातृगोचरस्नेहममत्वादिभिरासन्नमुक्तिरपि यतिर्जन्म- बन्धाँल्लभते ॥ ५८ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ५९॥ अल्पेत्यादि । आहारलाघवेन निर्जनदेशस्थानादिना च रूपादिविषयैराकृष्यमा- जानीन्द्रियाणि निवर्तयेत् ॥ ५९ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६० ॥ इन्द्रियाणामित्यादि ॥ यस्मात् इन्द्रियाणां निग्रहेण रागद्वेषाभावेन च प्राणि- हिंसाविरतेन च मोक्षयोग्यो भवति ॥ ६ ॥ इदानीमिन्द्रियनियमोपायविषयवैराग्याय संसारतत्त्वचिन्तनमुपदिशति- अवेक्षेत गतीनृणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥६१॥ अवेक्षतेत्यादि । विहिताकरणनिन्दिताचरणरूपकर्मदोषजन्यां मनुष्याणां पश्चा-