पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ मनुस्मृतिः [ अध्यायः ६ दिदेहप्राप्तिं नरकेषु पतनं यमलोके नरकस्थस्य निशितनिबिंशच्छेदनादिभवास्ती- अवेदनाः श्रुतिपुराणादिघूक्ताश्चिन्तयेत् ॥ ६१ ॥ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियः। जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ६ ॥ विप्रयोगमित्यादि । इष्टपुत्रादिवियोग, अनिष्टहिंसकादियोग, जराभिभवनं, व्याध्यादिभिश्च पीडनं कर्मदोषसमुद्भवमनुचिन्तयेत् ॥ ६२ ॥ देहादुत्क्रमणं चासात्पुनर्गर्भे च संभवम् । योनिकोटिसहस्रेषु सतीश्चास्यान्तरात्मनः॥ ६३ ॥ देहादित्यादि ॥अस्माहेहादस्य जीवात्मन उत्क्रमणं तथाच मर्मभिद्भिर्महारोगप- तितस्य श्लेप्मादिदोषनिरुद्धकण्ठस्य महतीं वेदनां गर्भे चोत्पत्तिदुःखबहुलां श्वशृ- गालादिनिकृष्टजातियोनिकोटिसहनगमनानि स्वकर्मबन्धान्यनुचिन्तयेत् ॥ ६३ ॥ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६४ ॥ अधर्मेत्यादि । शरीरवतां जीवात्मनामधर्महेतुकं दुःखसंबन्धं धर्महेतुकोऽर्थों ब्रह्मसाक्षात्कारस्तत्प्रभवं मोक्षलक्षणमक्षयं ब्रह्मसुखसंयोगं चिन्तयेत् ॥ ६ ॥ मूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः। देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥६५॥ सूक्ष्मतामित्यादि ॥ योगेन विषयान्तरचित्तवृत्तिनिरोधेन परमात्मनः स्थूलगरी- राद्यपेक्षया सर्वान्तर्यामित्वेन सूक्ष्मतां निरवयवतां तत्त्यागादुत्कृष्टापकृष्टेषु देवपश्वा- दिशरीरेषु जीवानां शुभाशुभफलभोगार्थमुत्पत्तिमधिष्टानमनुचिन्तयेत् ॥ ६५ ॥ दूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६६ ॥ दूषित इति ॥ यस्मिन्कस्मिंश्चिदाश्रमे स्थितस्तदाश्रमिविरुद्धाचारदूषितोऽप्या- श्रमलिङ्गरहितोऽपि सर्वभूतेषु ब्रह्मबुद्ध्या समदृष्टिः सन् धर्ममनुतिष्ठेत् । नहि दण्डादिलिङ्गधारणमात्रं धर्मकारणं किंतु विहितानुष्टानं, एतच्च धर्मप्राधान्यबोध- नायोक्तं नतु लिङ्गपरित्यागार्थम् ॥ ६६ ॥ अन्न दृष्टान्तमाह- फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६७ ॥ फलमिति ॥ यद्यपि कतकवृक्षस्य फलं कलुषजलस्वच्छताजनकं तथापि तन्नामो- च्चारणवशान्न प्रसीदति किंतु फलप्रक्षेपेण, एवं न लिङ्गधारणमात्रं धर्मकारणं किंतु विहितानुष्टानम् ॥ ६७ ॥