पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२१२ मनुस्मृतिः । [ अध्यायः ६ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निपेद्विधिपूर्वकम् ॥ ५॥ मुन्यन्नैरिति ॥ मुन्यन्नै वारादिभिर्नानाप्रकारैः पवित्रैः शाकमूलफलैर्वारण्योद्भ- वैः । एतानेवेति गृहस्थस्य पूर्वोक्तान्महायज्ञान्यथाशास्त्रमनुतिष्ठेत् ॥५॥ वसीत चर्म चीरं वा सायं स्लायात्पगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥६॥ वसीत इति ॥ मृगादिचर्म वृक्षवल्कलं वा आच्छादयेत् । हारीतेन तु 'वल्कल- शाणचर्मचीरकुशमुझफलकवासाः' इति विदधता वल्कलादिकमप्यनुज्ञातम् । सायंप्रातः स्त्रायात् । जटाइमथुलोमनखानि नित्यं धारयेत् ॥ ६॥ यद्भक्ष्यं स्यात्ततो दद्याद्भलिं भिक्षां च शक्तितः। अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ ७॥ यद्भक्ष्यमिति ॥ यद्भुञ्जीत ततो यथाशक्ति बलिं भिक्षां च दद्यात् । बलिमिति तु वैश्वदेवनित्यश्राद्धयोरुपलक्षणम् । 'एतानेव महायज्ञान्' हति विहितत्वात् आश्रमागताञ्जलफलमूलभिक्षादानेन पूजयेत् ॥ ७ ॥ स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥८॥ स्वाध्यायेति ॥ वेदाभ्यासे नित्ययुक्तः स्यात् । शीतातपादिद्वन्द्वसहिष्णुः सर्वोप- कारकः संयतमनाः सततं दाता प्रतिग्रहनिवृत्तः सर्वभूतेषु कृपावान्भवेत् ॥ ८ ॥ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः॥९॥ वैतानिकमिति ॥ गार्हपत्यकुण्डस्थानामग्नीनामाहवनीयदक्षिणाग्निकुण्डयोवि- हारो वितानं तत्र भवं वैतानिकमग्निहोत्रं यथाशास्त्रमनुतिष्ठेत् । दर्श पौर्णमासं च पवैति श्रोतस्मातदर्शपौर्णमासौ योगतः स्वकाले अस्कन्दयनपरित्यजन् , भार्यानि- क्षेपपक्षे च रजस्वलायामिव भार्यायामेतेषामनुष्टानमुचितम् । विशेषाश्रवणात् ॥९॥ ऋष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥१०॥ अक्षेति । ऋक्षेष्टिनक्षत्रेष्टिः, आग्रयणं नवसस्येष्टिः, ऋक्षेष्ट्याग्रयणं चेति समाहारद्वन्द्वः। तथा चातुर्मास्यतुरायणदाक्षायणानि श्रोतकर्माणि क्रमेण कुर्यात् । अत्र केचित् । सर्वमेतच्छ्रौतं दर्शपौर्णमासादि कर्म वानप्रस्थस्य स्तुत्यर्थमुच्यते न- त्वस्थानुष्टेयं ग्राम्यग्रीह्यादिसाध्यत्वादेषां च । नच स्मृतिः श्रौताङ्गबाधने शक्तेत्याहु- स्तदसत् । 'वासन्तशारदैः' इत्युत्तरश्लोके मुन्यन्नैर्नीवारादिभिर्वानप्रस्थविषयतया स्पष्टस्य चरुपुरोडाशादिविधेर्वाधनस्यान्याय्यत्वात् । गोविन्दराजस्तु बीह्यादिभिरेव कथंचिदरण्यजातैरेतान्निर्वर्तयिष्यत इत्याह ॥ १० ॥