पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२०० मनुस्मृतिः [ अध्यायः ५ .? इत्यादि । अर्को यथा 'गामालम्पार्कमीक्ष्य वा । झालो यथा 'शुद्ध्येद्विप्रो दशा- हेन'। वायोस्तु शुद्धिहेतुत्वं मनुनानुक्तमपि पन्थानश्च विशुद्ध्यन्ति सोमसूर्यो- शुमारुतैः' इति विष्ण्वादायु ग्राह्यम् ॥ १०५ ।। सर्वेपामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिर्हि व शुचिर्न द्धारिशुचिः शुचिः॥१०६॥ सर्वेपामेवेति ॥ सर्वेषां मृद्वारि निमित्तदेहशौचलनशौचादीनां मध्यादर्थगी- चमन्यायेन परधनहरणपरिहारेण यद्धनेहा तत्परं प्रकृष्टं मन्वादिभिः स्मृतम् । यस्माद्योऽर्थे शुद्धः स शुद्धो भवति । यः पुनर्टद्वारिशुचिरर्थे चाशुद्धः सोऽशुद्ध एव ॥ १०६॥ क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जयेन तपसा देववित्तमाः॥१०७॥ क्षान्त्येति ॥ परेणापकारे कृते तसिन्नत्यपकारबुध्यनुत्पत्तिरूपया पण्डिताः शुद्ध्यन्ति । यथाच वक्ष्यति'महायज्ञक्रियाः क्षमा । नामयन्त्याशु पापानि' इति । अकार्यकारिणो दानेन । यथा वक्ष्यति-'सर्वस्वं वा वेदविदे ब्राह्मणाय' इति । अप्रख्यातपापा जप्येन । यथा वक्ष्यति----'जयंस्तूपवलेद्दिनम्' इति । वेद- वित्तमाः वेदार्थचान्द्रायणादितपोविदः तपसत्येकादशाध्याये वक्ष्यमाणेन ॥१०७॥ मृत्तोयैः शुद्ध्यते शोध्यं नदी वेगेन शुद्ध्यति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः ॥ १०८ ॥ मृत्तोयैरिति ॥ मलाद्युपहतं शोधनीयं मृजलैः शोध्यते । नदीप्रवाहश्च श्लेप्मा- द्यशुचिदूपितो वेगेन शुन्यति । स्त्री च परपुरुषमैथुनसंकल्पादिपितमानसा प्रति- मासातवेन तस्मात्पापाच्छुद्धा भवति । ब्राह्मणश्च संन्यासेन षष्टाध्यायाभिधेयेन पापाच्छुद्ध्यति ॥ १०८ ॥ अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिानेव शुद्ध्यति ॥ १०९ ॥ अद्भिरिति ॥ स्वेदाघुपहतान्यङ्गानि जलेन क्षालितानि शुद्यन्ति । मनश्च निषिद्धचिन्तादिना दूपितं सत्याभिधानेन शुद्ध्यति । भूतात्मा सूक्ष्मादिलिङ्ग- शरीरावच्छिन्नो जीवात्मा ब्रह्मविद्यया पापक्षयहेतुतया तपसा च शुद्धो भवति । शुद्धः परमात्मरूपेणावतिष्ठते । बुद्धिश्च विपर्ययज्ञानोपहता यथार्थविषयज्ञानेन शुद्ध्यति ॥ १०९॥ एष शौचस्य वः प्रोक्तः विनिर्णयः। नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥११० ॥ एप इति ॥ अयं शरीरसंबन्धिनः शौचस्य युप्माकं निश्चय उक्तः । इदानीं नानाप्रकारद्व्याणां येन यच्छुद्ध्यति तस्य निर्णयं शृणुत ॥ ११ ॥