पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्यायः ५] मन्वनमुक्तावलीसंवलिता। १९९ असपिण्डमिति ॥ असपिण्डं ब्राह्मणं मृतं ब्राह्मणो बन्धुवनेहानुबन्धेन न त्वद- ष्टबुद्ध्येत्यर्थांदुक्तम् । मातुश्चाप्तान्सन्निकृष्टान्सहोदरभ्रातृभगिन्यादीन्यान्धवानिहत्य त्रिरात्रेण शुद्धो भवति ॥ ३०१ ॥ यवन्नमत्ति तेषां तु दशाहेनैव शुद्ध्यति । अनदन्नन्नमदैव न चेत्तसिन्गृहे वसेत् ॥ १०२ ॥ यद्यन्नमिति ॥ निहरिको यदि तेषां भृतस्य सडिण्डानामाशौचिनामन्नमश्नाति तदा तदृशाहेनैव शुद्ध्यति न त्रिरात्रेण । अथ तेपासन्नं नानाति, गृहे च तेषां न वसति, निर्हरति च तदाहोरात्रेणैव शुद्ध्यति । एवंच तद्गृहवासे सनि तदन्ना- भोजिनो निरिकस्य पूर्वोक्तं त्रिरात्रम् ॥ १०२ ।। अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥१०३॥ अनुगम्येति ॥ ज्ञातिमज्ञातिं वा मृतमिच्छातोऽनुगम्य सचैलस्त्रानं च कृत्वा ततोऽग्निं च स्पृष्ट्वा पश्चाद्धृतप्राशनं कृत्वा अनुगमननिमित्ताशौचाहिशुष्यति॥३०३॥ न विप्रं खेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । अस्वा ह्याहुतिः सा साच्छूद्रसंस्पर्शदूपिता ॥ १०४ ॥ न विप्रमिति ॥ ब्राह्मणादिं मृतं समानजातीयेषु स्थितेषु न शूद्रेण पुत्रादिनि- हारयेत् । यस्मात्सा शरीराहुतिः शूदस्पर्शदुष्टा सती मृतस्य स्वर्गाय हिता न भवति । मृतं स्वर्ग न प्रापयतीत्यर्थः । स्वेषु तिष्ठस्वित्यभिधानाद्राह्मणाभावे क्ष- त्रियेण तदभावे वैश्येन तदभावे शूद्रेणापि निहारयेदित्युक्तं यथापूर्व श्रेष्ठत्वा- दस्वयंदोषश्च ब्राह्मणादिसद्भावे शूद्रेण निर्हरणे सति बोद्धव्यः । गोविन्दराजस्तु दोषनिर्देशात्स्वेषु तिष्ठस्वित्यविवक्षितमित्याह । तदयुक्तम् । संभवदर्थपदद्वयो- च्चारणवैयर्थ्यप्रसङ्गादुपक्रमावगतेश्च वेदोदितन्यायेनानुबोध्यत्वागुणभूतशुद्ध्यनु- रोधेन प्रधानभूताया जातेरुपेक्षायां गुणलोपेनामुख्यत्येत्यपि न्यायेन बाध्येत । तस्मात्स्वेषु तिष्टत्स्विति पदद्वितयं न विवक्षितम् । इमां गोविन्दराजस्य राजाज्ञां नाद्रियामहे ॥ १०४॥ ज्ञानं तपोऽग्निराहारो मृन्मनो वायुपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्धेः कर्तृणि देहिनाम् ॥ १०५ ॥ ज्ञानमिति ॥ ज्ञानादीनि शुद्धः साधनानि भवन्ति । तत्र ब्रह्मज्ञानं बुद्धिरूपा- न्तःकारणशुद्धेः साधनं । यथा वक्ष्यति 'बुद्धिानेन शुद्ध्यति'। तपो यथा 'तपसा वेदवित्तमाः'। अग्निर्यथा 'पुनः पाकेन मृन्मयम्'। आहारो यथा 'हविष्येण यवाग्वा' इति । मृद्वारिणी यथा 'मृद्वार्यादेयमर्थवत्'इति । नमो यथा 'नमःपूतं समाचरेत् इति । संकल्पविकल्पात्मकं मनो, निश्चयात्मिका बुद्धिरिति मनोबुद्ध्यो- भैंदः । उपाञ्जनमुपलेपनं यथा 'मार्जनोपाञ्जनैवैश्म' । कर्म यथा 'यजेद्वाऽश्वमेधेन'