पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१९० मनुस्मृतिः। [ अध्यायः ५ पौरुषीयं सपिण्डता । तदुक्तं मत्स्यपुराणे-'लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड- भागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्' । सगोत्रत्वे चेयं सपि- गडता । अतएव शङ्खलिखितौ-'सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी'। तेन मातामहादीनामेकपिण्डसंबन्धेऽपि न सपिण्डता । समानोदकत्वं पुनरम- त्कुलेऽमुकनामाभूदिति जन्मनामोभयापरिज्ञाने निवर्तते ॥६॥ यथेदं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥ ६१॥ यथेदमिति ॥ यथेदं दशाहादिकं शवनिमित्तमाशौचं कर्मानहत्वलक्षणं सपि- ण्डेषु ‘दशाहं शावमाशौचम्' इत्यनेन विधीयते । प्रसवेऽपि सम्यक् शुद्धिमि- च्छता सपिण्डानां तादृशमेवाशौचं भवेत् ॥ ६१ ॥ अनिर्देशेन तुल्यतायां प्राप्तायां विशेषमाह- सर्वेषां शावमाशौचं मातापित्रोस्तु मूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः॥६२॥ सर्वेषामिति ॥ मरणनिमित्तमस्पृश्यत्वलक्षणमाशौचं सर्वेषामेव सपिण्डानां समानम् । जनननिमित्तं तु मातापित्रोरेव भवति । तत्राप्ययं विशेषः । जनन- निमित्तमस्पृश्यत्वं मातुरेव दशरात्रं । पिता तु स्नानास्पृश्यो भवति । अयमेव संबन्धः संवर्तेन व्यक्तीकृतः- 'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुधेदृशाहेन स्नानात्तु स्पर्शनं पितुः' ॥ ६२ ॥ निरस्य तु पुमाञ्शुक्रमुपस्पृश्यैव शुद्ध्यति । वैजिकादभिसंवन्धादनुरुन्ध्यादघं त्र्यहम् ॥ ६३ ॥ निरस्य त्विति ॥ स्नानं मैथुनिनः स्मृतम्' इति मैथुने स्नानं विधास्यति, तेन मैथुनं विनापि कामतो रेतस्खलने स्नात्वा पुमान्शुद्धो भवति । अकामतस्तु स्वप्नादौ रेतःपाते 'मूत्रवद्रेतस उत्सर्ग' इत्यापस्तम्बोक्तेः स्नानं विनापि गृहस्थस्य शुद्धिः । ब्रह्मचारिणस्त्वकामतोऽपि 'स्वप्ने सिक्त्वा ब्रह्मचारी' इत्यनेन स्नाना- दिना शुद्धिरुक्ता । बैजिके तु संबन्धे परपूर्वभार्यायामपत्योत्पत्तौ त्र्यहमाशौचं भवति । तथाच विष्णु:--'परपूर्वभार्यासु त्रिरात्रम्' । रेतःपातिनामाशौचम- प्रकृतमपि जननप्रकरणे प्रसङ्गात्तदनुगुणतयोक्तम् । यत्र रेतःपातमात्रेण स्नानं तत्रापत्योत्पत्तौ त्रिरात्रमुचितम् ॥ ६३ ॥ अह्वा चैकेन राव्या च त्रिरात्रैरेव च त्रिभिः। शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः॥६४ ॥ अह्ना चैकेनेति ॥ एकेनाला एकया च राज्येत्यहोरात्रेण त्रिरात्रैस्त्रिभिरिति नवाहोरात्रैर्मिलित्वा दशाहेनेति वैदग्ध्येनोक्तम् । ननु दशाहेनेति वक्तव्ये किम- र्थोऽयं वाग्विस्तरः । उच्यते । 'बृंहीयसी लघिष्टां वा गिरं निर्मान्ति वाग्मिनः ।