पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। १८९ धर्मः । वर्जनं पुनर्महाफलम् । अविहिताप्रतिपिद्धमद्यमैथुननिवृत्तेर्महाफलकथना- थोऽयमुक्तस्यैव मांसवर्जनमहाफलकथनस्यानुवादः ॥ ५६ ॥ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५७ ॥ प्रेतशुद्धिमिति ॥ ब्राह्मणादीनां चतुर्णामपि वर्णानां प्रेतेष्वपि पित्रादीनां शुद्धिं ब्राह्मणादिक्रमेण या यस्येति, द्रव्यादीनां च तैजसादीनां शुद्धिमभिधास्यामि ७५ तत्र शुद्धेरशुद्धिसापेक्षत्वातन्निरूपणार्थमाह- दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५८ ॥ दन्तजात इति ॥ दन्तजाते जातदन्त इत्यर्थः । 'वाहिताग्न्यादिषु' इत्यनेन जातशब्दस्य परनिपातः । अनुजाते जातदन्तानन्तरे कृतचूडाकरणे च चकारा- त्कृतोपनयने च संस्थिते मृते सति बान्धवाः सपिण्डाः समानोदकाश्चाशुद्धा भवन्ति । प्रसवे च तथैवाशुद्धा भवन्तीत्युच्यते । वयोविभागेनोद्देशमात्रमिदं वक्ष्यमाणाशौचकालभेदादिसुखाववोधनार्थम् ॥ ५८ ॥ दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्-संचयनादस्यां व्यहमेकाहमेव वा ॥ ५९ ॥ दशाहमिति ॥ सप्तपुरुषपर्यन्तं सपिण्डतां वक्ष्यति । सपिण्डेषु शवनिमित्तमा शौचं दशाहोरात्रं ब्राह्मणस्योपदिश्यते । 'शुयेद्विप्रो दशाहेन' इति वक्ष्यमाण- त्वात् । अक्सिंचयनादस्वामिति चतुरहोपलक्षणम् । चतुर्थे दिवसेऽस्थिसंचयनं कुर्यादिति विष्णुवचनाच्यहमेकाहोरात्रं वा । अहःशब्दोऽहोरात्रपरः । अयं चाग्नि वेदादिगुणापेक्षा व्यवस्थितविकल्पः । यथाह दक्षः-'एकाहाच्छुद्धयते विप्रो योऽ- निवेदसमन्वितः । हीने हीनं भवेच्चैव यहश्चतुरहस्तथा' । श्रौताग्निमतो मन्नन्ना- ह्मणात्मककृत्स्नगाखाध्यायिन एकाहाशौचम् । तत्र श्रौताग्निवेदाध्ययनगुणयोरेक- गुणरहितो हीनस्तस्य यह , उभयगुणरहितस्तु हीनतरः, केवलस्मार्ताग्निमांस्तस्य 'चतुरहः, सकलगुणरहितस्य दशाहः । तदाह पराशरः 'निर्गुणो दशभिर्दिनैः' इति ॥ सपिण्डलक्षणमाह- सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ६ ॥ सपिण्डता त्विति ॥ यं पुरुषं प्रतियोगिनं कृत्वा निरूप्यते तस्य पितामहन- भृतीन्षदपुरुषानतिक्रम्य सप्तमे पुरुषे प्राप्ते सपिण्डत्वं निवर्तते । एवं पुत्रपौत्रादि- प्वप्यवगन्तव्यम् । पिण्डसंबन्धिनिबन्धना चेयं सपिण्डता । तथाहि पितृपिता- महप्रपितामहेभ्यस्त्रिभ्यः पिण्डदानं, प्रपितामहस्य पित्रादयस्त्रयः पिण्डलेपभुजश्व तत्पूर्वस्य तु सप्तग्रस्य पिण्डसंबन्धो नास्तीत्यसपिण्डता । यस्य चैते षट् पुरुषाः सपिण्डाः सोऽपि तेषां सपिण्डः, पिण्डदातृत्वेन तत्पिण्डसंबन्धात् । अतः साप्त-