पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ।।


मनुष्यालयचन्द्रिका ।


नृसिंहयादवाकारतेजोद्वितयमद्वयम् ।
राजते नितरां राजराजमङ्गलधामनि ।। १ ।।

श्रीमत्कुण्डपुरे विराजति परक्रोडे च तेजः परं
नावानाम्नि च धाम्नि च यच्च नितरां मल्लीविहारालये ।
अश्वत्थाख्यनिकेतनेऽपि च पुरे श्रीकेरलाधीश्वरे
सम्भूयैतदुरुप्रकाशविषये चित्ते ममोज्झृम्भताम् ॥ २ ॥

श्रीमङ्गलास्पसदाश्रयनीलकण्ठ-
प्रेमप्रकर्षनिलयः सकलाभिवन्द्यः ।
श्रीमद्भिरीन्द्रतनयातनयोऽङ्घ्रिभाजां
कामप्रदो जयति मत्तमतङ्गजास्यः ॥ ३ ॥

तद्देवपादकमलैकसमाश्रयः कोऽ-
प्युद्योतमानगुरुवर्यकृपाभियोगात् ।

१. 'व' ख. पाठः.